Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०८ मार्चमास: (हि.स.)। केन्द्रीयमन्त्री अन्नपूर्णादेवी राष्ट्रपति-द्रौपदी मुर्मु-इत्यस्या: पश्चिम–बङ्गाल–प्रवाससमये जातायाः घटनायाः सम्बन्धे ममताबनर्जी तीव्रं प्रत्युत्तरं प्रदत्तवती। रविवासरे कर्तव्य–मार्गे आयोज्यमाने शक्ति–वाक्–अनन्तरं सञ्चार–माध्यमैः साकं अन्नपूर्णादेवी उवाच –“पश्चिम–बङ्गाले राष्ट्रपति-द्रौपदीमुर्मु–इत्यनया सह जातः व्यवहारः अतीव दुर्भाग्यपूर्णः तथा लोकतान्त्रिक–मर्यादानां प्रतिकूलः अस्ति। अस्या: दुर्भाग्यपूर्ण–घटनायाः यथासम्भवम् निन्दां कर्तुं यथेष्टं नास्ति।”
सा उक्तवती – राष्ट्रपतिः राष्ट्रस्य संवैधानिक–प्रमुखा अस्ति। पश्चिम–बङ्गाल-प्रवासे स्वस्य यात्रायाम् तत्र कस्यापि मन्त्रिणः वा मुख्यमंत्रिण: उपस्थितिः न जाता इति पश्चिम–बङ्गाल–सर्वकारस्य दुर्बुद्धिं मानसिकतां च प्रकटयति। एवं प्रतीयते यत् ममता बनर्जी निराशां प्राप्तवती। मुख्यमंत्री यथा वक्तव्यं यच्छति, तथा सम्यक् नास्ति। राष्ट्रपति कस्यापि पक्षस्य सम्बन्धिनी नास्ति। द्रौपदीमुर्मु सम्पूर्ण–देशस्य संवैधानिक–प्रमुखा अस्ति। तस्याः कृते कुत्रापि गमनाय कस्यापि परामर्शस्य आवश्यकता नास्ति। अतः ह्यः यज्जातं यत् निश्चितरूपेण राष्ट्राय लज्जास्पदं तथा तस्याः दुर्बुद्धिम् दर्शयति।
सा उक्तवती यत् – अस्य पदस्य प्रतिष्ठा सम्मानेन सह कस्यापि प्रकारस्य असंवेदनशीलता पूर्णतः अस्वीकार्या। अस्या: घटनया राष्ट्रस्य जनानां भावनाः अपहृताः। पश्चिम–बङ्गाल–सर्वकारेण अस्य अमर्यादित–आचरणाय राष्ट्रात् क्षमायाचना करणीया।
हिन्दुस्थान समाचार / अंशु गुप्ता