Enter your Email Address to subscribe to our newsletters

भोपालम्, 08 मार्चमासः (हि.स.)।
मध्यप्रदेशस्य राजधानी भोपाल नगरे अस्मिन् वर्षे रंगपञ्चमी अवसरि पारम्परिकः चलसमारोहः नूतनरूपेण नूतनशैलिना च दृश्यते। श्री हिन्दू उत्सव समिति इत्यस्याः आयोजनानुसारं रविवासरे प्रातः 11 वादने सुभाष चौक स्थितात् सराफा मार्केट इत्यस्मात् भव्यः जुलूसः निष्कास्यते।समित्याः अध्यक्षः चन्द्रशेखर तिवारी उक्तवान् यत् अस्मिन् वर्षे अयं चलसमारोहः इन्दौर नगरस्य प्रसिद्धायाः “गेर” परम्परायाः अनुरूपेण आयोज्यते। जुलूसे डुलडुल घोड़ी, ढोलताशवादनम्, डीजे, बैंडवादनम् च आकर्षकप्रस्तुतयः भविष्यन्ति। बहुसंख्यकाः जनाः पिचकारिकाभिः गुलालेन च सह अत्र सहभागी भविष्यन्ति, येन सम्पूर्णः मार्गः वर्णैः पूर्णतया आच्छादितः दृश्यते।प्रदर्शिन्याः विशेषम् आकर्षणम्
अस्मिन् चलसमारोहे बह्व्यः आकर्षकाः झांक्यः अपि समावेश्यन्ते। तासु एका झांकी भारतस्य क्रिकेटदलेन आईसीसी विश्वकप विजयस्य उत्सवदृश्यं प्रदर्शयिष्यति, यत्र युवानः हस्तेषु ट्रॉफीं धारयन्तः वर्णमध्यॆ उत्सवं दर्शयिष्यन्ति। तदनन्तरं भगवान् बालकृष्णस्य पालकी अपि निष्कास्यते, यस्याम् श्रद्धालवः वर्णगुलालेन सह होलीक्रीडां कुर्वन्तः गमिष्यन्ति। सन्तानां नेतृत्वे निष्कास्यमाना एषा पालकी जुलूसस्य प्रमुखम् आकर्षणं भविष्यति।
पञ्च ट्रालियानेषु धार्मिकसांस्कृतिक झांक्यः
प्रायः द्विकिलोमीटरदीर्घे अस्मिन् चलसमारोहे पञ्चसु ट्रालिषु विभिन्नाः झांक्यः सज्जीकृताः भविष्यन्ति। तासु राधाकृष्णयोः होलीलीला तथा भगवान् शिव सह माता पार्वती ययोः “मसान में होली” इति विषयः अपि समाविष्टः भविष्यति। एताभिः झांकिभिः धार्मिकसांस्कृतिकपरम्पराणां संदेशः प्रदास्यते।
इन्दौर नगरस्य गेर परम्परायाः अनुरूपेण अस्मिन् वर्षे भवानी चौक इत्यत्र विशेषयन्त्राणि स्थाप्य वर्णगुलालयोः वर्षा क्रियते, येन सम्पूर्णे मार्गे अद्वितीयः रंगोत्सवमयः वातावरणः निर्मीयते।
चलसमारोहस्य मार्गः
अयं चलसमारोहः सुभाष चौक कोतवाली इत्यस्मात् आरभ्य लोहा बाजार, जुनेराती गेट, जनकपुरी, पुराना पोस्ट ऑफिस, सिंधी मार्केट, भवानी चौक, सोमवारिया, लखेरापुरा, पीपल चौक, चिंतामन चतुष्पथि, इलेक्ट्रॉनिक मार्केट, इतवारा, जैन मंदिर रोड, गणेश चौक मंगलवार, कुंदन नमकीन मार्ग, घोड़ा नक्कार, अग्रवाल पूरी भंडार, छोटे भैया चौराहा, कारखर मार्गेण गत्वा हनुमान मंदिर गल्ला बाजार थाना हनुमानगंज इत्यत्र समाप्तः भविष्यति।
समित्या राजधानीनिवासिभ्यः आह्वानं कृतं यत् ते बहुसंख्यया सहभागी भूत्वा अस्य पारम्परिकोत्सवस्य भव्यतां स्मरणीयतां च वर्धयन्तु।
---------------
हिन्दुस्थान समाचार