अंताराष्ट्रिय महिला दिवसे मुख्यमंत्री मोहन मझी वर्धापितवान्
-मुख्यमंत्री मोहन माझी नेमहिला केन्द्रित योजनानां विषये कृतवान् उल्लेखः भुवनेश्वरम्, 08 मार्चमासः (हि.स.)। अन्ताराष्ट्रियमहिलादिवसस्य अवसरम् उपलक्ष्य ओडिशाराज्यस्य मुख्यमन्त्री मोहन माझी सम्पूर्णराज्यस्य महिलाभ्यः हार्दिकशुभाशंसाः अभिनन्दनं च प्र
बजट पेश करते हुए मुख्यमंत्री मोहन माझी


-मुख्यमंत्री मोहन माझी नेमहिला केन्द्रित योजनानां विषये कृतवान् उल्लेखः

भुवनेश्वरम्, 08 मार्चमासः (हि.स.)।

अन्ताराष्ट्रियमहिलादिवसस्य अवसरम् उपलक्ष्य ओडिशाराज्यस्य मुख्यमन्त्री मोहन माझी सम्पूर्णराज्यस्य महिलाभ्यः हार्दिकशुभाशंसाः अभिनन्दनं च प्रदत्तवान् तथा ताः समाजस्य वास्तविकशक्तिरूपेण प्रशंसितवान्। स्वसन्देशे मुख्यमन्त्री उक्तवान् यत् महिलाशक्तिः एव समाजस्य प्रगतये वास्तविकाधारः अस्ति। तेन स्वसर्वकारस्य प्रतिबद्धता पुनः प्रतिपादिता यत् महिलानां समग्रविकासः सशक्तिकरणं च सदैव प्राथमिकविषयः भविष्यति।

मुख्यमन्त्री अनेकानां प्रमुखयोजनानां अपि उल्लेखं कृतवान्। “सुभद्रा योजना” महिलाभ्यः आर्थिकस्वातन्त्र्यं प्रददाति, यदा “लखपति दीदी” अभियानं ताः उद्यमितायाः आत्मनिर्भरत्वस्य च मार्गे अग्रे नयति। अस्याः योजनायाः अन्तर्गतं ओडिशाराज्ये अनेकासां दीदीनां लखपतित्वस्य स्वप्नः साकारीजातः।

बालिकानाम् उज्ज्वलभविष्याय “मुख्यमन्त्री कन्या सुमङ्गल योजना” शिक्षाप्राप्तौ महत्त्वपूर्णं परिवर्तनं जनयति, तथा “मुख्यमन्त्री कन्या विवाह योजना” सामाजिकसुरक्षां दृढां करोति। मातृत्वशिशुस्वास्थ्ययोः क्षेत्रे “ममता” तथा “प्रधानमन्त्री मातृ वन्दना योजना” इत्येताभ्यां योजनाभ्यां निरन्तरं समर्थनं प्रदीयते।

मुख्यमन्त्री “सुभद्रा वेलनेस सेन्टर” तथा “सुभद्रा शक्ति संवाद” इत्यादीनां नवाचारपरियोजनानां अपि उल्लेखं कृतवान्, याः महिलानां स्वास्थ्यस्य जागरूकतायाः च वृद्धये समर्पिताः सन्ति।

मुख्यमन्त्री अवदत् यत् अस्माकं प्रयत्नाः महिलानां प्रति सम्मानं, समानावसरान् तथा सर्वेषु क्षेत्रेषु प्रगतिं सुनिश्चितं कर्तुं समर्पिताः सन्ति—स्वास्थ्यसेवातः आरभ्य आर्थिकस्वातन्त्र्यपर्यन्तम्। अन्ते सः सर्वान् आह्वयत् यत् महिलानां साहसं उपलब्धयः च उत्सवेन मन्यन्ताम् तथा समतामूलकस्य समावेशीसमाजस्य निर्माणे सहकार्यं कुर्वन्तु।

---------------

हिन्दुस्थान समाचार