झांसी : गौवंश संरक्षणस्य महिला सशक्तिकरणस्य अनुपमादर्शः जाता गुलारायाः गौशाला
-आजीविका मिशनसहाय्येन गोमयेन प्राकृतिकरंगं निर्मान्ति 52 समूहानां 500तः अधिकाः महिलाः -गौशाला महिलाभ्यः दर्शितवती आत्मनिर्भरतायाःमार्गम् झांसी, 08 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य योगी सर्वकारो महिलासशक्तिकरणं गोवंशसंरक्षणं च प्रोत्साहय
गौशाला में कार्य करती महिलाएं


-आजीविका मिशनसहाय्येन गोमयेन प्राकृतिकरंगं निर्मान्ति 52 समूहानां 500तः अधिकाः महिलाः

-गौशाला महिलाभ्यः दर्शितवती आत्मनिर्भरतायाःमार्गम्

झांसी, 08 मार्चमासः (हि.स.)।

उत्तरप्रदेशस्य योगी सर्वकारो महिलासशक्तिकरणं गोवंशसंरक्षणं च प्रोत्साहयितुं दिशि अनेकाः महत्त्वपूर्णाः प्रयत्नाः क्रियन्ते। झांसी जनपदस्य चिरगांव विकासखण्डस्य ग्रामपञ्चायत गुलारा स्थिताया गौशालाया तथा अत्र स्थापितस्य गोमयात् वर्णनिर्माणकारखानस्य उदाहरणं विशेषरूपेण दृष्टिगोचरं भवति। अत्र गौशालायां एकस्मिन् पक्षे निराश्रितगवां संरक्षणं क्रियते, अपरस्मिन् पक्षे गोमयात् वर्णं निर्माय महिलाः उद्यमितायाः आजीविकायाः च मार्गं प्रदर्शयन्ति।

उत्तरप्रदेश राज्य ग्रामीण आजीविका मिशन अन्तर्गतं 52 अधिकेषु स्वयं सहायता समूहेषु सम्बद्धाः 500 अधिकाः महिलाः मिलित्वा गठिता गोवर्धन प्रेरणा महिला लघु उद्योग समिति इत्यनेन गतवर्षे 2025 तमे वर्षे खादी प्राकृतिक पेंट प्लांट आरब्धः।

समूहस्य महिलासदस्यान् आत्मनिर्भराः कर्तुं तथा स्थानीयस्तरे रोजगारावसरान् उपलब्धीकर्तुं उद्देशेन स्थापितस्य अस्य कारखानस्य संचालनाय महिलाभ्यः प्रशिक्षणम् अपि प्रदत्तम्।

खादी इंडिया संस्थायाः जयपुर नगरे स्थिते कुमारप्पा संस्थाने महिलाभ्यः प्रशिक्षणं प्रदत्तम्। अयं विशिष्टः प्रयासः ग्रामीणअर्थव्यवस्थां सुदृढीकर्तुं महिलाः आत्मनिर्भराः कर्तुं च महत्त्वपूर्णः कदमः अस्ति।

गोमयेन निर्मिताः प्राकृतिकवर्णाः पर्यावरणस्य अनुकूलाः मन्यन्ते तथा तेषां विपण्यां याचना अपि वर्धमाना अस्ति। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथ अपि सर्वकारीभवनानां भित्तीनां गोमयवर्णेन रंजनं कर्तुं पूर्वमेव अनेकवारं निर्देशं दत्तवान्। कारखानस्य तथा गौशालायाः संरक्षणपालनस्य सम्पूर्णा जिम्मेदारी महिलाभिः एव वह्यते।

उत्तरप्रदेश ग्रामीण आजीविका मिशन तथा डेवलपमेंट अल्टरनेटिव्स नाम्ना गैरसरकारीसंस्थया महिलाभ्यः अस्य इकाईस्थापनकार्ये तकनीकी आर्थिकसहायता च प्रदत्ता।

गोवर्धन प्रेरणा महिला लघु उद्योग समिति इत्यस्याः सचिवा दमयंती राजपूत उक्तवती यत् अस्मिन् कारखाने प्रतिदिनं प्रायः सहस्रलीटरपर्यन्तं वर्णनिर्माणं क्रियते। गोमयेन निर्मितस्य अस्य वर्णस्य पर्याप्ता मागणी अस्ति तथा कम्पनी थोकमूल्येन अत्रतः वर्णं क्रीत्वा नयति। अत्र निर्मितस्य वर्णस्य विक्रयः सहजतया भवति। अत्र सर्वाः व्यवस्थाः महिलाभिः एव वह्यन्ते तथा आजीविकामिशनस्य माध्यमेन तासां सहाय्यं प्रदीयते।

---------------

हिन्दुस्थान समाचार