Enter your Email Address to subscribe to our newsletters

- स्वर्गीयस्य दिलीप सिंह जूदेवस्य जयंत्यां मुख्यमंत्री सायः अकरोत् श्रद्धापूर्वकं नमनम्
रायपुरम्, 08 मार्चमासः (हि.स.)।मुख्यमन्त्री विष्णुदेव सायोऽद्य रविवासरे पूर्वलोकसभासांसदस्य स्वर्गीयस्य दिलीप सिंह जूदेवस्य जयन्त्याः अवसरम् उपलक्ष्य रायपुरनगरस्थिते मुख्यमन्त्रिणः निवासपरिसरे तस्य छायाचित्रे पुष्पाञ्जलिं समर्प्य श्रद्धया नमनं कृतवान्।
अस्मिन् अवसरे मुख्यमन्त्री सायः स्वर्गीय दिलीप सिंह जूदेवस्य दीर्घस्य सामाजिकराजनीतिकजीवनस्य समाजस्य प्रति तेषां उल्लेखनीययोगदानस्य च स्मरणं कृत्वा श्रद्धाञ्जलिम् अर्पितवान्। सः अवदत् यत् स्वर्गीय दिलीप सिंह जूदेवस्य समग्रजीवनं समाजसेवायै जनकल्याणाय विशेषतः जनजातिसमाजस्य उत्थानाय समर्पितम् आसीत्। तेन निःस्वार्थभावेन समाजस्य दुर्बलवञ्चितवर्गाणां अधिकाररक्षणार्थं निरन्तरं कार्यं कृतम्।
मुख्यमन्त्री सायः उक्तवान् यत् जूदेवस्य विचाराः, तेषां आदर्शाः तथा सेवाभावः अद्यापि समाजस्य कृते प्रेरणास्रोतः सन्ति। अस्माभिः तेषां दर्शितमार्गेण गत्वा समाजस्य प्रदेशस्य च विकासार्थं निरन्तरं प्रयत्नः कर्तव्यः।
मुख्यमन्त्री सायः उक्तवान् यत् वनाञ्चलक्षेत्रेषु आदिवासीसमाजस्य परिचयः, स्वाभिमानः तथा सामाजिकजागरूकता दृढीकरणे स्वर्गीय जूदेवस्य योगदानं सदा स्मरणीयं भविष्यति। तेषां प्रयत्नैः जनजातिसमाजे आत्मगौरवस्य भावना सुदृढा जाता तथा समाजे सकारात्मकचेतनायाः प्रसारः अभवत्।
अस्मिन् अवसरे विधायकाः गोमती साय तथा रायमुनि भगत, प्रबल प्रताप सिंह जूदेव, मुख्यमन्त्रिणः प्रेसाधिकारी आलोक सिंहः तथा अन्ये गणमान्यजनाः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार