मध्यप्रदेशः- मुख्यमंत्री डॉ. यादवः अद्य अशोकनगरस्य करीला धाम मेलापके भविष्यति सम्मेलनम्
- विकास कार्याणां करिष्यते लोकार्पण-शिलान्यासः भोपालम् , 08 मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवोऽद्य रविवासरे अशोकनगर जनपदस्य बहादुरपुर तहसीलस्य ग्राम करीला इत्यत्र रंगपञ्चमी अवसरि आयोजिते मेले सहभागी भविष्यति। जनसम्पर्क
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


- विकास कार्याणां करिष्यते लोकार्पण-शिलान्यासः

भोपालम् , 08 मार्चमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवोऽद्य रविवासरे अशोकनगर जनपदस्य बहादुरपुर तहसीलस्य ग्राम करीला इत्यत्र रंगपञ्चमी अवसरि आयोजिते मेले सहभागी भविष्यति।

जनसम्पर्काधिकारी केके जोशी सूचितवान् यत् मुख्यमन्त्री डॉ. यादव अस्मिन् अवसरे माता जानकी दर्शनं करिष्यति तथा अन्तरराष्ट्रीयमहिला दिवसस्य अवसरि स्वसहायतासमूहैः आयोजितां प्रदर्शनीं निरीक्षिष्यति। तस्मिन् अवसरि विविधविकासकार्याणां लोकार्पणं शिलान्यासं च अपि करिष्यति।

करीला धाम श्रद्धालूनां आस्थाकेन्द्रम्

उल्लेखनीयम् अस्ति यत् अशोकनगर जनपदस्य बहादुरपुर तहसीलस्य ग्रामपञ्चायत जसैया अन्तर्गत ग्राम करीला इत्यत्र प्रतिवर्षं रंगपञ्चमी अवसरि विशालः मेला आयोज्यते। अस्मिन् वर्षे अयं मेला मार्चमासस्य 7 दिनाङ्कात् 9 दिनाङ्कपर्यन्तं आयोज्यते। परम्परानुसारं माता जानकी ऋषेः वाल्मीकिनः आश्रमे लवकुशयोः सह घने वने निवसति स्म, अतः अस्य स्थानस्य नाम करीला इति प्रसिद्धम्।

मेले आगच्छन्तां प्रायः 20 लक्षाधिकानां श्रद्धालूनां सुविधानां दृष्ट्या सुरक्षा व्यवस्था अन्याः आवश्यकव्यवस्थाः च व्यापकतया कृताः सन्ति।

राई नृत्यस्य विशेषा परम्परा

करीला धाम्नि प्रचलिता आस्था अस्ति यत् यस्य सन्तानं न भवति सः अत्र आगत्य माता जानकी समीपे मनोकामनां याचते चेत् तस्य इच्छा पूर्णा भवति। श्रद्धालवः माता जानकी मन्दिरे श्रद्धापूर्वकं प्रसादं समर्प्य अभ्यर्थनां याचन्ते। याचनापूर्तेः अनन्तरं ते स्वश्रद्धानुसारं राई नृत्य करवयन्ति।

लोकमान्यतया कथ्यते यत् लवकुशयोः जन्मानन्तरं माता जानकी अनुरोधेन महर्षिः वाल्मीकि तयोः जन्मोत्सवं महता उत्साहेन अयोजयत्। तस्मिन् उत्सवे स्वर्गात् अवतीर्य अप्सराः अपि नृत्यं कृतवन्त्यः। स एव उत्सवः अद्यापि रंगपञ्चमी अवसरि अत्र मन्यते।

तस्मिन् उत्सवे प्रतिवर्षं शतशः नृत्याङ्गनाः अत्र राई नृत्यं प्रस्तुवन्ति। ताः ओढन्या घूंघटं कृत्वा नगाडानां घोषेण मृदङ्गस्य तालस्य च सह लम्बघेरयुक्तलहङ्गैः, पादयोः घुंघरूणां झंकारेण मनोहरभावैः रात्रिं यावत् नृत्यं कुर्वन्ति। तदा दृश्यते यथा अप्सराः स्वर्गात् अवतीर्य जन्मोत्सवस्य आनन्दं भूयः मन्यन्ते।

प्रातःकाले नृत्याङ्गनाभिः प्रस्तुतं बधाई नृत्य इत्यनेन सह मेलापके समापनं भवति।

---------------

हिन्दुस्थान समाचार