Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०८ मार्चमासः (हि.स.)।नरेन्द्रमोदी अद्य दिल्ली–निवासिभ्यः महान्तं उपहारं दातुं सज्जः अस्ति। सः अपराह्णे प्रायः द्वादशवादने ३३,५०० कोटि–रूप्यकाणां बहूनां विकास–परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। अस्मिन् अवसरे सः सभां अपि सम्बोधयिष्यति। कार्यक्रमात् पूर्वं प्रधानमन्त्री नरेन्द्र मोदी सरोजिनी–नगर–स्थितानां जीपीआरए–टाइप–५ निवास–गृहाणां अवलोकनं करिष्यति तथा महिला–आवंटित्रीभ्यः गृह–कुञ्जिकाः समर्पयिष्यति। एषा सूचना आधिकारिक–विज्ञप्त्या प्रदत्ता। भारतीयजनतापक्षस्य ‘एक्स’–माध्यमे दिल्ली–प्रदेशाध्यक्षः वीरेन्द्र:सचदेवा प्रधानमन्त्रिणः अद्यतन–कार्यक्रमं सचित्रं सहभागं कृतवान्। दिल्ली–मुख्यमन्त्री रेखा गुप्ता अपि उक्तवती यत् अद्य दिल्ली–नगरे विशेषः दिवसः अस्ति।
आधिकारिक–वक्तव्ये उक्तं यत् प्रधानमन्त्री प्रायः १८,३०० कोटि–रूप्यकाणां व्यये दिल्ली–मेट्रो–परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। नरेन्द्र मोदी दिल्ली–मेट्रोयानस्य द्वयोः नूतनयोः परिसरयोः उद्घाटनं करिष्यति। तयोः मध्ये प्राय: १२.३ किलोमीटर–दीर्घः मजलिस–पार्क–मौजपुर–बाबरपुर (पिङ्क–रेखा) परिसरः तथा प्राय: ९.९ किलोमीटर–दीर्घः दीपाली–चतुष्पथ–मजलिस–पार्क (मैजेंटा–रेखा) परिसरः च अन्तर्भवन्ति। एतेन बुराड़ी, जगतपुर–वजीराबाद, खजूरी–खास, भजनपुरा, यमुना–विहार, मधुबन–चौक, हैदरपुर–बादली–मोड, भलस्वा, मजलिस–पार्क इत्यादिषु दिल्ली–नगरस्य बहुषु क्षेत्रेषु जनानां लाभः भविष्यति।
वक्तव्ये अपि उक्तं यत् प्रधानमन्त्री नरेन्द्र मोदी दिल्ली–मेट्रो–परियोजनायाः चरण–५–ए अन्तर्गतं लगभग् १६.१० किलोमीटर–दीर्घाणां त्रयाणां नूतन–परिसराणां आधार–शिलां स्थापयिष्यति। एते नूतन–परिसराः— आर.के.–आश्रम–मार्गात् इन्द्रप्रस्थपर्यन्तम्, एयरो–सिटी–स्थानात् इन्दिरा–गांधी–विमानतलस्य टर्मिनल–१ पर्यन्तम्, तथा तुगलकाबादात् कालिन्दी–कुञ्जपर्यन्तम्। एतेषां निर्माणानन्तरं नोएडा, दक्षिण–दिल्ली तथा विमानतल–क्षेत्रयोः मध्ये यात्रां कुर्वतां जनानां कृते सुविधा अधिका भविष्यति।
तथैव प्रधानमन्त्री नरेन्द्र मोदी जनरल–पूल–रेसिडेन्शियल–अकोमोडेशन (जीपीआरए) पुनर्विकास–योजनायाः अन्तर्गतं १५,२०० कोटि–रूप्यकाणां बहूनां परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। एताः परियोजनाः सरोजिनी–नगरं, नेताजी–नगरं, कस्तूरबा–नगरं तथा श्रीनिवासपुरी इत्यादिषु प्रमुख–स्थानेषु सञ्चालिताः सन्ति। एतासां परियोजनानां पुनर्विकासः नवोन्मेषी–आत्मनिर्भर–वित्तीय–आदर्शेन कृतः। अस्याः योजनायाः अन्तर्गतं सर्वकारी–कर्मचारिणां कृते ९,३५० अधिकाः आधुनिक–निवास–प्रकोष्ठा: उपलब्धाः भविष्यन्ति, तथा च प्राय: ४८ लक्ष–वर्ग–फुट–परिमितं कार्यालय–क्षेत्रं अपि निर्मास्यते।
दिल्ली–मुख्यमन्त्री रेखा गुप्ता हर्षं व्यक्तीकृत्य ‘एक्स’–माध्यमे लिखितवती— “एताभिः परियोजनाभिः दिल्ली–नगरस्य सम्पर्क–व्यवस्था नूतनं वेगं प्राप्स्यति। यात्रा अधिका शीघ्रा, सुगमा, सुरक्षिताऽपि भविष्यति। यातायात–सङ्कोचस्य तथा प्रदूषणस्य न्यूनतया सह लक्षाधिक–यात्रिभ्यः आधुनिकं विश्व–स्तरीयं सार्वजनिक–परिवहन–सौविध्यं उपलब्धं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता