Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०८ मार्चमास: (हि.स.)। योगी-आदित्यनाथ: उत्तरप्रदेशस्य मुख्यमन्त्री अन्ताराष्ट्रिय-महिला-दिवसावसरे प्रदेशस्य नारी–शक्तये पत्रं लिखित्वा तासां योगदानस्य महत्त्वं निरूपितवान्। तेन उक्तं यत् सशक्त–समाज–निर्माणे महिलानां महत्त्वपूर्णा भूमिका वर्तते।
मुख्यमन्त्री योगी-आदित्यनाथ: अवदत् यत् सर्वकारः अर्ध-जनतानां सुरक्षा–गरिमा–आत्मनिर्भरता–विषये दृढसंकल्पित: अस्ति। तेन उक्तं यत् २०१७ वर्षात् पूर्वं महिलाभिः सह अपराधाः सामान्याः आसन्, किन्तु अद्य प्रदेशे कन्याः सुरक्षिताः सन्ति। स्पष्ट–नीतिः तथा शुद्ध–नीयतिः अस्य सिद्धेः कारणं भवति।
नारी–शक्तिं प्रति लिखिते पत्रे तेन निर्दिष्टं यत् मिशन–शक्ति तथा एण्टी–रोमियो–अभियान-इत्येताभ्यां अपराधिनां मनसि भयस्य सृष्टिः जाता। यत्र कन्याः सुरक्षिताः सम्मानिताश्च भवन्ति, तत्र समाजः निरन्तरं प्रगतिं करोति। अद्य छात्राणां शिक्षायां त्याग–दरः (ड्रॉपआउट–दरः), मातृ–मृत्यु–दरः तथा शिशु–मृत्यु–दरः अपि अत्यन्तं न्यूनः जातः। शिक्षातः रोजगार–क्षेत्रपर्यन्तं कन्याभ्यः समान–अवसराः लभन्ते। उत्तरप्रदेशस्य नारी–शक्तिः अद्य स्वावलम्बनस्य नूतनं अध्यायं रचयति।
मुख्यमन्त्री अवदत् यत् बीसी–सखी, लक्ष्मी–दीदी, ड्रोन–दीदी, स्वास्थ्य–सखी, सूर्य–सखी इत्यादयः योजनाः स्वपरिवारैः सह प्रदेशस्य सशक्तीकरणे योगदानं कुर्वन्ति। तेन उक्तं यत् नारी–सम्मानं समग्र–समाजस्य कृते सर्वोपरि भवेत्। माता तथा मातृभूमिः स्वर्गात् अपि श्रेष्ठा अस्ति।
स्वस्य पत्रे योगी-आदित्यनाथ: लिखितवान् यत् प्रदेशस्य कन्याभ्यः कस्यापि भयस्य आवश्यकता नास्ति। सर्वकारः कन्याः स्वप्नानां उड्डयनाय पक्ष्मान् प्रददाति।
हिन्दुस्थान समाचार / अंशु गुप्ता