खाड़ी–संकटस्य मध्ये भारत–सर्वकारः सतर्क:, ५२ सहस्राधिकाः भारतीयाः सुरक्षिताः, स्वदेशं प्रत्यागताः
नवदिल्ली, १० मार्चमास: (हि.स.)।पश्चिम–एशिया–प्रदेशे तथा खाड़ी–क्षेत्रे वर्धमान–चिन्ताया: मध्ये भारत–सर्वकारेण तत्र स्थितानां भारतीय–नागरिकाणां सुरक्षा–सहायतयोः कृते अनेकानि पदानि गृहीतानि। विदेशमंत्रालयेन उक्तं यत् क्षेत्रे परिवर्तमाना स्थितिः निरन
खाड़ी–संकटस्य मध्ये भारत–सर्वकारः सतर्क:, ५२ सहस्राधिकाः भारतीयाः सुरक्षिताः, स्वदेशं प्रत्यागताः


नवदिल्ली, १० मार्चमास: (हि.स.)।पश्चिम–एशिया–प्रदेशे तथा खाड़ी–क्षेत्रे वर्धमान–चिन्ताया: मध्ये भारत–सर्वकारेण तत्र स्थितानां भारतीय–नागरिकाणां सुरक्षा–सहायतयोः कृते अनेकानि पदानि गृहीतानि। विदेशमंत्रालयेन उक्तं यत् क्षेत्रे परिवर्तमाना स्थितिः निरन्तरं निरीक्ष्यते तथा भारतीय–नागरिकाणां सुरक्षा सर्वोच्च–प्राथमिकता अस्ति।

विदेश–मन्त्रालयस्य अनुसारं गतदिनेषु क्षेत्रीय–विमान–क्षेत्रस्य आंशिकतया उद्घाटनस्य अनन्तरं अनेकाः वाणिज्यिक–विशेष–विमान–यात्राः सञ्चालिताः सन्ति। एतेषां विमान–यात्राणां माध्यमेन ०१ मार्चतः ०७ मार्चपर्यन्तं ५२,००० अधिकाः भारतीय–नागरिकाः खाड़ी–देशेभ्यः सुरक्षिताः भारतं प्रत्यागताः। एतेषु ३२,००० अधिकाः यात्रिकाः भारतीय–विमान–सेवानां उपयोगं कृतवन्तः। अग्रिमेषु दिनेषु अपि अधिक–विमान–यात्राणां योजना क्रियते।

सर्वकारेण क्षेत्रे स्थिताः भारतीयाः स्थानीय–प्रशासनस्य निर्देशानां तथा भारतीय–दूतावासैः निर्गतानां परामर्शानां पालनं कर्तुम् उक्ताः। विभिन्न–देशेषु स्थिता: भारतीय–दूतावासाः वाणिज्य–दूतावासाश्च चतुर्विंशति–होरापर्यन्तं प्रवर्तमाना सहायता–सेवा अपि आरब्धवन्तः, येन आवश्यकतानुसारं जनानां कृते साहाय्यं प्रदीयते।

विदेशमंत्रालयेन नवदिल्ली–नगरे विशेष–नियन्त्रण–कक्षः अपि स्थापितः, यः प्रभावित–जनानां तथा तेषां परिवार–जनानां प्रश्नानां साहाय्य–अनुरोधानां च निरीक्षणं कुर्वन् अस्ति।

सर्वकारेण उक्तं यत् यत्र वाणिज्यिक–विमान–यात्राः उपलब्धाः न सन्ति, तत्र भारतीय–नागरिकाः स्व–निकटस्थेन भारतीय–दूतावासेन अथवा वाणिज्य–दूतावासेन सम्पर्कं कृत्वा आवश्यक–सूचनां प्राप्तुं शक्नुवन्ति। आवश्यकता–समये क्षेत्रीय–सर्वकारैः सह समन्वयं कृत्वा अतिरिक्त–सहाय्यं दातुं भारत–सर्वकारः सज्ज: अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता