Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०८ मार्चमासः (हि.स.) — अन्ताराष्ट्रिय–महिला–दिवसस्य अवसर: समागतः। अस्मिन्नेव अवसरे प्रधानमन्त्री नरेन्द्रमोदी रविवासरे सरोजिनी–नगरस्थ जनरल–पूल–रेजिडेन्शियल–अकॉमोडेशन (जीपीआरए) प्रकार–५ क्वार्टर्स इत्यस्य निरीक्षणं कृत्वा महिला–आवंटिनः प्रति गृह–कुंचिका: प्रदत्तवन्तः च, ताः अभिनन्दितवन्तः।
अस्मिन्नेव अवसरे प्रधानमन्त्री महिला–आवंटिनः च निर्माण–कार्ये संलग्नाभि: श्रमजीवी–भगिनीभि: सह संवादं कृत्वा तेषां अनुभवान् विचिरान् च श्रुतवन्तः। महिला–योगदानस्य प्रशंसां कृत्वा स: अवदत् यत् सर्वकारः सततं महिला–सशक्तिकरणाय तथा सम्मानाय प्रयत्नशीलः अस्ति।
प्रधानमन्त्री आवासीय–समूहस्य निरीक्षणं कृत्वा तत्र उपलब्धानां सौविध्यानां विषये ज्ञानं गृहीतवान्। अस्मिन् अवसरे केंद्रीय–आवास–शहरी–कार्यमन्त्री मनोहरलाल: (मनोहर लाल) अपि उपस्थिता: आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता