Enter your Email Address to subscribe to our newsletters

लखनऊ, 08 मार्चमासः (हि.स.)। उत्तरप्रदेशे मन्त्रिमण्डलविस्तारसम्बद्धाः अटकाः शीघ्रमेव समाप्तिं गन्तुं सज्जाः सन्ति। ११ मार्च २०२६ तिथेः अनन्तरं कदापि योगी मन्त्रिमण्डलस्य विस्तारः सम्भवितुम् अर्हति। अस्य विषये सङ्गठनसर्वकारयोः स्तरयोः वार्ता अन्तिमरूपेण सम्पन्ना अस्ति। सरकारे ये नूतनमुखानि सम्मिलितानि भविष्यन्ति तेषां नामसु अपि अनुमोदनं कृतम्। एतस्य पुष्टि सङ्गठनस्य एकेन वरिष्ठपदाधिकारेण कृता।
भाजपायाः विश्वसनीयसूत्राणां अनुसारं आगामि २०२७ वर्षस्य विधानसभानिर्वाचनं दृष्ट्वा उत्तरप्रदेशे मन्त्रिमण्डलविस्तारः शीघ्रमेव भविष्यति। जातिगतक्षेत्रीयसन्तुलनस्य स्थापनार्थं अपरः एकः उपमुख्यमन्त्री अपि नियुक्तः भविष्यति। अस्य विषयस्य सर्वं पूर्वकार्यं सम्पन्नम् अस्ति। मन्त्रिमण्डलविस्तारानन्तरं आयोगानां निगमाणां च रिक्तपदानि अपि शीघ्रं पूरितानि भविष्यन्ति।
भारतीयजनतादलस्य प्रदेशप्रवक्ता हरिश्चन्द्र श्रीवास्तव हिन्दुस्थानसमाचारसंस्थां प्रति उक्तवान् यत् मन्त्रिमण्डलविस्तारः मुख्यमन्त्रिणः विशेषाधिकारः भवति। संवैधानिकव्यवस्थानुसारं उत्तरप्रदेशे अद्यापि कतिपयानि पदानि रिक्तानि सन्ति। यदा मुख्यमन्त्री योगी आदित्यनाथ इच्छिष्यति, तदा सङ्गठनस्य सह विचारविमर्शं कृत्वा मन्त्रिमण्डलविस्तारः क्रियते।
सूचनानुसारं एकमासस्य अन्तरे सङ्गठने अपि विस्तृतपरिवर्तनं भविष्यति। भाजपायाः जिलाकार्यकारिणीनिर्माणप्रक्रिया आरब्धा अस्ति। तदनन्तरं क्षेत्रीयप्रदेशीयकार्यकारिण्यः अपि गठिताः भविष्यन्ति। अस्मिन् अनेकानि प्राचीनानि नूतनानि च मुखानि अवसरं प्राप्स्यन्ति। कार्यकारिण्यां युवा, ओबीसी, अनुसूचितजाति तथा महिलानां प्रतिनिधित्वं विशेषतया ध्यानं कृत्वा सुनिश्चितं क्रियते। जिलासमितिषु विधानसभालोकसभाविस्तारकानां समायोजनाय अपि निर्देशाः दत्ताः सन्ति।
यथा यथा उत्तरप्रदेशे विधानसभानिर्वाचनं समीपं आगच्छति, तथा तथा सङ्घसरकारयोः मध्ये समन्वयबैठकानां क्रमः आरब्धः। अधुना मुख्यमन्त्री योगी आदित्यनाथ, प्रदेशाध्यक्षः पंकज चौधरी तथा प्रदेशमहामन्त्री सङ्गठन धर्मपाल स्वयम् विभिन्नप्रान्तेषु गत्वा सङ्घपदाधिकरिभिः सह बैठकाः कुर्वन्ति। सङ्घस्य भाजपायाः च पक्षतः अवध, कानपुर, गोरक्ष, काशी, मेरठ तथा ब्रजप्रान्तेषु समन्वयबैठकाः सम्पन्नाः सन्ति।
हिन्दुस्थान समाचार