Enter your Email Address to subscribe to our newsletters

पटनानगरम्, ०८ मार्चमासः (हि.स.)।जनतादल (यूनाइटेड)–पक्षस्य राष्ट्रीय–महासचिवः मनीष: वर्मा अद्य सामाजिक–माध्यमे प्रकाशिते संदेशे उक्तवान् यत् नूतन–वंशं विना कश्चन अपि यात्राम् अग्रे नेतुं न शक्यते। अद्य दलस्य प्रदेश–कार्यालये आयोजिते कार्यक्रमे सहस्रशः कार्यकर्तॄणां उपस्थितौ निशांतकुमारस्य सक्रिय–राजनीतौ प्रवेशः जनतादल (यूनाइटेड)–परिवारस्य कृते अत्यन्तं भावनात्मकः उत्साहवर्धकश्च अवसरः भविष्यति।
मनीष: वर्मा अवदत् यत् तस्मिन् विनम्रता, सहजता तथा सरलता प्रचुरतया वर्तते। तेन कदापि अस्य गर्वः न कृतः यत् सः कस्यचित् महान्-नेतुः पुत्रः अस्ति। राजनैतिक–जीवने तस्य आगमनं केवलं व्यक्तिगत–आरम्भः न, अपि तु जनतादल (यूनाइटेड)–पक्षस्य राजनीतिं अग्रे नेतुं दिशि महत्त्वपूर्णं सोपानम् अस्ति। बिहार–राज्यस्य राजनीतौ विकासस्य, सुशासनस्य सामाजिक–समरसतायाश्च उन्नयनाय तस्य योगदानं अपेक्षितम् अस्ति। कार्यकर्तॄणां आग्रहात् तस्य अग्रे आगमनं सुखद: विषय: इति अपि तेन उक्तम्।
सः अवदत् यत् तस्मै पूर्णः विश्वासः अस्ति यत् तस्य शान्तेन, संयत–सन्तुलितेन च व्यक्तित्वेन संघटनाय नूतना ऊर्जा दृढता च प्राप्स्यते। सहैव बिहार–राज्यस्य युवा–शक्तिः अपि समाज–राज्य–निर्माणे सकारात्मकीं रचनात्मकां उत्तरदायित्वपूर्णां च भूमिकां निर्वहणाय नूतनां प्रेरणां प्राप्स्यति। सार्वजनिक–जीवनस्य अस्य नूतन–पर्यायस्य आरम्भाय तस्मै हार्दिकानि अभिनन्दनानि शुभाशयाश्च प्रेषिताः। जनता दल (यूनाइटेड)–परिवारे तस्य स्वागतं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता