Enter your Email Address to subscribe to our newsletters


नवदिल्ली, ०८ मार्चमासः (हि.स.) — कर्तव्य–पथे रविवासरे नारी–शक्तेः महोत्सवदृश्यं दृष्टम्। अन्ताराष्ट्रिय–महिला–दिवसस्य अवसरे महिलापरिषदा तथा बाल–कल्याण–मन्त्रालयेन आयोजिते शक्ति–वॉक-मध्ये सर्वेषु क्षेत्रेषु स्थिताः महिलाः भागं गृहीतवत्य:। वॉक्-आरम्भं महिला एवं बाल–विकास–मन्त्री अन्नपूर्णा देवी (अन्नपूर्णा देवी) कृतवती। अस्मिन् अवसरे दिल्ली–मुख्यमन्त्री रेखा गुप्ता (रेखा गुप्ता), राज्य–मन्त्री सावित्री ठाकुर:, अनुप्रिया पटेल:, तथा राष्ट्रीय–महिला–आयोग–अध्यक्षा विजया रहाटकर: अपि उपस्थिताः आसन्। सर्वाः महिलाः इण्डिया–गेट् इत्यत्र विजय–चौक्पर्यन्तं पथि विचरित्वा नारी–शक्तेः सशक्तिकरणस्य च उत्सवम् आचरितवत्य:।अस्मिन् अवसरे महिला एवं बाल–विकास–मन्त्री अन्नपूर्णा देवी सर्वाः महिलाः अभिनन्द्य अवदत् यत् भारतस्य नारी–शक्ति अद्य प्रत्येकं क्षेत्रं नव–आयामैः प्रतिष्ठापयति — रक्षामार्गे, विज्ञानक्षेत्रे, क्रीडायां, उद्यमितायां च शासन–क्षेत्रे अपि। प्रधानमन्त्री नरेन्द्रमोदिन: नेतृत्वे महिलाः सशक्तं कर्तुं अनेके प्रयत्नस्य अवसराः च सुनिश्चिताः, यत् ता: आत्मविश्वासेन राष्ट्र–निर्माणस्य नेतृत्वं कुर्वन्ति।
सा अवदत् यत् विकसित–भारतस्य नार्यः एव विकसित–भारतस्य आधार–शिला:। दिल्ली–मुख्यमन्त्री रेखागुप्ता अपि अवदत् यत् अन्ताराष्ट्रिय–महिला–दिवसः तस्य नारी–सशक्तिकरण–संकल्पस्य उत्सवः। सा उक्तवती यत् शक्ति–वॉक् इत्यस्य उद्देश्यं महिलानां उपलब्धीनां उत्सवम् आचरितुं, ता: प्रेरयितुं, तथा समाजे दृढ–विश्वासं स्थापयितुं यत् यदा नारी–शक्ति: अग्रे गच्छति, तदा राष्ट्रस्य प्रगति: नवगति: प्राप्नोति। सैनिक–सज्जितात् आरभ्य आरक्षकपर्यन्तं, स्वास्थ्य–सेवायाः आरभ्य क्रीडा–क्षेत्रपर्यन्तं, शासनात् आरभ्य समाज–भूमिप्रयत्नपर्यन्तं प्रत्येकं क्षेत्रं भारतस्य नारी–शक्ति नवानि कीर्तिमानानि स्थापयति।
हिन्दुस्थान समाचार / अंशु गुप्ता