भाजपादलेन राज्यसभानिर्वाचनाय पर्यवेक्षकाः नियुक्ताः
नव दिल्ली, 09 मार्चमासः (हि.स.)। भारतीय जनता पार्टी इत्यनेन राज्यसभा निर्वाचनार्थं बिहार, हरियाणा तथा ओडिशा राज्ययोः केन्द्रीयपर्यवेक्षकाः नियुक्ताः। सोमवासरे निर्गतायां भाजपाया विज्ञप्तौ उक्तं यत् राष्ट्रियाध्यक्षेन नितिन नवीन राज्यसभानिर्वाचनाय
भाजपा


नव दिल्ली, 09 मार्चमासः (हि.स.)।

भारतीय जनता पार्टी इत्यनेन राज्यसभा निर्वाचनार्थं बिहार, हरियाणा तथा ओडिशा राज्ययोः केन्द्रीयपर्यवेक्षकाः नियुक्ताः। सोमवासरे निर्गतायां भाजपाया विज्ञप्तौ उक्तं यत् राष्ट्रियाध्यक्षेन नितिन नवीन राज्यसभानिर्वाचनाय बिहारराज्यस्य कृते विजय शर्मा तथा हर्ष मल्होत्रा केन्द्रीयपर्यवेक्षकत्वेन नियुक्तौ।

तथैव हरियाणा राज्यस्य कृते गुजरात राज्यस्य उपमुख्यमन्त्री हर्ष सांघवी तथा ओडिशा राज्यस्य कृते महाराष्ट्र राज्यसरकारे मन्त्री चन्द्रशेखर बावनकुले पर्यवेक्षकत्वेन नियुक्तः।

उल्लेखनीयं यत् दशसु राज्येषु सप्तत्रिंशत्स्थानानां कृते राज्यसभा चुनाव 2026 इत्यस्य निर्वाचनं मार्चमासस्य षोडशे दिने भविष्यति। मतगणना अपि तस्मिन्नेव दिने भविष्यति।

येषु राज्येषु निर्वाचनं भविष्यति तेषु महाराष्ट्र (सप्त स्थानानि), तमिलनाडु (षट्), पश्चिम बंगाल तथा बिहार (पञ्च पञ्च), ओडिशा (चत्वारि), असमः (त्रीणि), हरियाणा, तेलंगाना तथा छत्तीसगढ़ (द्वे द्वे) तथा हिमाचल प्रदेश (एकम्) सम्मिलितानि सन्ति। अद्य नामांकनपत्रप्रत्याहारस्य अन्तिमतिथिः अस्ति।

---------------

हिन्दुस्थान समाचार