Enter your Email Address to subscribe to our newsletters

रायपुरम् 09 मार्चमासः (हि.स.)।
छत्तीसगढ़स्य मुख्यमन्त्री विष्णुदेव सायः अद्य रविवासरे राजधानी रायपुरे अनेकेषु महत्त्वपूर्णेषु कार्यक्रमेषु सहभागी भविष्यति।
नियतकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ९:५० वादने सिविल लाइनस्थितात् मुख्यमन्त्रिनिवासात् प्रस्थितः भविष्यति तथा प्रातः १०:०० वादने वीआईपी मार्गस्थितं भारतसेवाश्रमं गमिष्यति।
ततः परं सः मध्याह्ने १२:१० वादनात् १:२० वादनपर्यन्तं सीआईआई छत्तीसगढ़ वार्षिकबैठक २०२६ इत्यस्मिन् कार्यक्रमे सहभागी भविष्यति।
कार्यक्रमानन्तरं मुख्यमन्त्री मध्याह्ने १:४० वादने नवा रायपुरस्थितां विधानसभां प्रति प्रस्थितः भविष्यति तथा मध्याह्ने १:४५ वादनात् सायं ६:०० वादनपर्यन्तं विधानसभा सत्रे सहभागी भविष्यति।
---------------
हिन्दुस्थान समाचार