Enter your Email Address to subscribe to our newsletters

रायपुरम्, 09 मार्चमासः (हि.स.)।
छत्तीसगढ़ विधानसभा इत्यस्य बजटसत्रस्य अद्य षष्ठे दिने सदनस्य कार्यवाही सोमवासरे प्रातः ११ वादने आरभ्यते। कार्यवाह्याः आरम्भः प्रश्नकालात् भविष्यति, ततः अनन्तरं विभिन्नविभागानां वार्षिकप्रतिवेदनानि सदनपटल उपस्थापितानि भविष्यन्ति। वित्तीयवर्षस्य २०२६–२७ कृते अनेकानां महत्त्वपूर्णविभागानां अनुदानमागणानां विषये अपि चर्चा भविष्यति।
विपक्षः दुर्ग जिलायां भारतीय जनता पार्टी सम्बद्धस्य नेतुः क्षेत्रे अफीमकृषेः प्रकाशनानन्तरं अस्मिन् विषये सरकारं परिवेष्टयितुं सज्जः अस्ति। भारतीय राष्ट्रिय कांग्रेस दलस्य विधायकैः अस्मिन् विषये कार्यरोकोप्रस्तावः (स्थगनप्रस्तावः) आनयितुं योजना क्रियते। दलस्य कथनम् अस्ति यत् राज्ये सूखनशाव्यापारस्य विषये पूर्वमेव प्रश्नाः उत्थापिताः आसन्, अधुना तु भाजपादलसम्बद्धस्य नेतुः क्षेत्रे अफीमकृषेः प्रकाशनात् सरकारस्य दावेषु अपि प्रश्नाः उत्पन्नाः।
एतेन सह धानक्रयव्यवस्था, राशनव्यवस्था, आंगनवाडीसेवा तथा कुपोषणसम्बद्धाः विषयाः अपि विपक्षेण उत्थापनीयाः सन्ति। प्रश्नकाले खाद्यमन्त्री दयालदास बघेल तथा महिला-बालविकासविभागसम्बद्धेषु प्रश्नेषु चर्चाः भविष्यन्ति।
तथा च मुख्यमन्त्री विष्णु देव साय, मन्त्री केदार कश्यप, मन्त्री दयालदासबघेलः तथा मन्त्री
हिन्दुस्थान समाचार