Enter your Email Address to subscribe to our newsletters

भारतीय–क्रिकेट–इतिहासे १९८५ तमस्य वर्षस्य १० मार्चदिनाङ्कः एकः स्मरणीयः दिवसः मन्यते। अस्मिन्नेव दिने सुनील–गावस्करस्य नेतृत्वे भारतदेश: ऑस्ट्रेलिया–देशस्य मेलबोर्न–क्रिकेट–प्रांगणे आयोजितायां अन्तिम–स्पर्धायां पाकिस्तान–दलम् अष्ट–विकेट्–भेदेन पराजित्य ‘बेंसन–एण्ड–हेजेस् क्रिकेट–विश्व–चैम्पियनशिप्’ इत्यस्य उपाधिं प्राप्तवान्।
अन्तिम–स्पर्धायां पाकिस्तान–दलम् टॉस–विजयं प्राप्य प्रथमं बल्लेबाजीं कर्तुं निश्चयम् अकरोत्, किन्तु भारतीय–कन्दूकक्षेपका: आरम्भात् एव तेषु दलेषु बलं निर्मितवन्तः। तीव्र–कन्दूकक्षेपक: कपिलदेवः उत्कृष्ट–कन्दूकं कृत्वा पाकिस्तान–दलस्य आद्य–त्रयः विकेट् केवलं २९ धावनानिपर्यन्तं पातितवान्। तेन मुदस्सर–नजरः, मोहसिन–खानः तथा कासिम–उमरः इत्येते बहिर्गताः। अनन्तरं चेतन–शर्मा इत्यनेन रमीज–रजा अपि बहि: कृतम्।तथापि नायक जावेद–मियाँदादः ४८ धावनानां पर्यायं क्रीडित्वा दलं धारयितुं प्रयत्नं कृतवान्, किन्तु सः लक्ष्मण–शिवरामकृष्णनस्य कन्दूकेन स्टम्प्–आउट् अभवत्। अन्ततः पाकिस्तान–दलम् ५० ओवरेषु ९ विकेट्–हान्या सह १७६ धावनानि एव कर्तुं अशक्नुवन्।१७७ धावनानां लक्ष्यस्य अनुसरणं कुर्वन् भारतीस्य आरम्भः अत्युत्तमः आसीत्। कृष्–श्रीकान्तः (६७ धावनानि) तथा रवि–शास्त्री (नाबाद ६३ धावनानि) इत्येताभ्यां शतकीय–सहभागितां कृत्वा भारत–दलेन सुदृढां स्थितिं प्राप्तम्। अनन्तरं मोहम्मद–अजहरुद्दीनः (२५ रनाः) तथा दिलीप–वेंगसरकरः (नाबाद १८ रनाः) इत्येतयोः योगदानेन भारत–दलम् लक्ष्यं सहजतया प्राप्तवान्।सम्पूर्णायां प्रतियोगितायां उत्कृष्ट–प्रदर्शनस्य कारणेन रवि–शास्त्री इत्यस्मै “चैम्पियन–ऑफ–चैम्पियन्स्” इति उपाधिः प्रदत्ता। पुरस्काररूपेण तस्मै नूतनं ‘ऑडी–१००’ नाम कारयानं अपि प्रदत्तम्। विजयस्य आनन्दे समस्तं भारतीय–दलम् तस्मिन् एव कारयाने आरुह्य प्रांगणं परितः परिभ्रम्य उत्सवं आचरितवन्तः। एषः क्षणः अद्यापि भारतीय–क्रिकेट–इतिहासस्य अतीव स्मरणीयेषु क्षणेषु गण्यमानः अस्ति।
महत्वपूर्णाः घटनाः
१८७६ — ग्राहम्–बेल् प्रथमवारं दूरभाष–यन्त्रेण स्व–मित्रेण सह संवादं कृतवान्।१९२२ — महात्मा–गान्धी राजद्रोह–आरोपस्य कारणेन गृहीतः; तस्मै षट्–वर्षीयः कारावासः दत्तः, परन्तु द्विवर्षानन्तरं मुक्तः अभवत्।१९६९ — मार्टिन–लूथर–किङ्ग्–वधस्य अपराधी आजीवन–कारावासदण्डं प्राप्तवान्।१९८५ — भारतदेश: पाकिस्तानं पराजित्य क्रिकेट–क्षेत्रे बेंसन–एण्ड–हेजेस्–चैम्पियनशिप् विजितवान्; रवि–शास्त्री “चैम्पियन–ऑफ–चैम्पियन्स्” अभवत्।१९९८ — इंडोनेशिया–देशस्य राष्ट्रपतिः सुहार्तो सप्तमवारं राष्ट्रपतिपदे निर्वाचितः।२००२ — फिलिस्तीनस्य राष्ट्रपतिः यासिर–अराफात् इत्यस्य गमनागमन–निषेधः अपसारितः।२०१० — भारतीय–संसदः उच्च–सदने राज्यसभायां महिला–आरक्षण–विधेयकं पारितम्।२०१७ — दक्षिण–कोरिया–देशस्य राष्ट्रपतिः पार्क–ग्युन–हे संवैधानिक–न्यायालयेन पदात् अपसारिता।२०१८ — श्रीलङ्कायां साम्प्रदायिक–दङ्गेषु द्वौ जनौ मृतौ, दश जनाः आहताः।
जन्म
१९३२ — उडुपी–रामचन्द्र–रावः, भारतस्य प्रसिद्धः अन्तरिक्ष–वैज्ञानिकः तथा इसरो संस्थायाः पूर्वाध्यक्षः।१९३४ — लल्लन–प्रसाद–व्यासः, प्रसिद्धः समाज–सुधारकः।१९४५ — माधवराव–सिन्धिया, प्रख्यातः काङ्ग्रेस–नेता।१९७० — उमर–अब्दुल्ला, जम्मू–कश्मीर–राजनीतिज्ञः।१९९६ — प्रियंका–गोस्वामी, भारतीय महिला एथलीट् (रेस–वॉकर)।
निधनम्
१८९७ — सावित्रीबाई–फुले, भारतस्य प्रथम–बालिका–विद्यालयस्य प्रथम–प्रधानाचार्या तथा किसान–विद्यालयस्य संस्थापिका।१९१५ — गबर–सिंह–नेगी, प्रथम–विश्वयुद्धे मरणोपरान्तं विक्टोरिया–क्रॉस सम्मानं प्राप्तवान्।१९५९ — मुकुन्द–रामाराव–जयकर, शिक्षाविद्, न्यायविद् तथा समाजसेवी।१९९० — दरबारा–सिंह, पञ्जाब–राज्यस्य पूर्व–मुख्यमन्त्री।१९९९ — विष्णु–वामन–शिरवाडकर: (कुसुमाग्रज), मराठी–कवि: तथा साहित्यकारः।२०१८ — सुरुज–बाई–खांडे, छत्तीसगढस्य प्रसिद्धा गायिका।
हिन्दुस्थान समाचार / अंशु गुप्ता