Enter your Email Address to subscribe to our newsletters

कोलकाता, 09 मार्चमासः (हि.स.)। पश्चिमबङ्गराज्यस्य त्रिदिवसीयदौरे आगतः भारत निर्वाचन आयोग इत्यस्य मुख्यनिर्वाचनायुक्तः ज्ञानेश कुमार सोमवासरे प्रातःकाले कालीघाट मंदिर इत्यस्मिन् प्रसिद्धे देवालये पूजार्चनां कर्तुं आगतः। अस्मिन् समये देवालयस्य बहिः केचन जनाः विरोधप्रदर्शनं कृत्वा निर्वाचनायोगस्य विरुद्धं घोषणाः अकुर्वन्।
मुख्यनिर्वाचनायुक्तेन सह राज्यस्य मुख्यनिर्वाचनाधिकारी मनोज कुमार अग्रवाल अपि उपस्थितः आसीत्। उभयोः देवालयं गन्तुं पूर्वमेव देवालयपरिसरस्य बहिः प्रदर्शनं आरब्धम्। प्रदर्शनकारिणः कृष्णध्वजान् दर्शयन्तः निर्वाचनायोगस्य तथा विशेषपुनरीक्षणप्रक्रियायाः विरुद्धं घोषान् अकुर्वन्।
प्रदर्शनकारिणां आरोपः आसीत् यत् विशेषपुनरीक्षणप्रक्रियया मतदारसूच्याः बहूनां जनानां नामानि अनावश्यकतया अपाकृतानि सन्ति। मुख्यनिर्वाचनायुक्तस्य समक्षमेव ते निर्वाचनायोगस्य विरुद्धं स्वक्रोधं व्यक्तवन्तः।
विरोधप्रदर्शनस्य मध्ये एव ज्ञानेशकुमारः देवालयं प्रविश्य पूजार्चनां कृतवान्। तस्मिन् समये सः किमपि वक्तव्यं न अकरोत्। देवालयात् निर्गत्य पत्रकारैः सह संक्षिप्तवार्तालापे सः केवलम् एतावत् अवदत्— “पश्चिमबङ्गराज्यस्य सर्वेभ्यः भ्रातृभ्यः भगिनीभ्यश्च मम नमस्कारः। काली माता सर्वान् सुखिनः करोतु।” विरोधप्रदर्शनविषये पृष्टे प्रश्नेषु सः काचिदपि प्रतिक्रिया न दत्त्वा तस्मात् स्थानात् प्रस्थितः।
निर्वाचनायोगस्य पूर्णपीठम् रविवासरे रात्रौ कोलकाता नगरं प्राप्तम्। अस्मिन् दौरे मुख्यनिर्वाचनायुक्तेन ज्ञानेशकुमारेण सह निर्वाचनायुक्तौ सुखबीर सिंह संधू तथा विवेक जोशी अपि सम्मिलितौ स्तः। सोमवासरे प्रातः प्रायः दशवादने आयोगस्य विभिन्नराजनीतिदलैः सह उपवेशनानि निर्धारिताः सन्ति।
तत्पश्चात् आयोगः राज्यप्रशासनस्य वरिष्ठाधिकारिभिः सह अपि उपवेशनं करिष्यति, यस्मिन् राज्यस्य मुख्यसचिवः पुलिसमहानिदेशकः अन्ये च शीर्षाधिकारिणः सम्मिलिताः भविष्यन्ति। सूत्राणाम् अनुसारं कालीघाट मंदिर दर्शनानन्तरं मुख्यनिर्वाचनायुक्तस्य बेलूर मठ गमनस्य अपि संभावना अस्ति।
हिन्दुस्थान समाचार