Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, ०९ मार्चमास: (हि.स.)। उत्तराखण्ड-राज्यस्य चौबटिया-प्रदेशे स्थिते फॉरेन-ट्रेनिङ्ग-नोडे २४ फरवरी-दिनाङ्कात् आरभ्य प्रवृत्तः भारत–जापानयोः संयुक्तः सैन्याभ्यासः ‘धर्म-गार्जियन’ इत्यस्य समापनम् अभवत्। अनेन अभ्यासेन उभय-देशयोः सेनयोः पारस्परिक-सञ्चालन-क्षमता (इंटरऑपरेबिलिटी) सुदृढीभूता तथा आतंकवाद-विरोधी-अभियानेषु, नगरीय-युद्ध-कौशलेषु तथा दुष्कर-प्रदेशेषु युद्धाभ्यासेषु संयुक्त-सञ्चालन-क्षमता अपि वर्धिता।
सैन्याभ्यासस्य ‘धर्म-गार्जियन’ इत्यस्य सप्तमं संस्करणं २४ फरवरी-दिने आरब्धम्, यः ०८ मार्च-पर्यन्तं प्रवृत्तः आसीत्। वर्ष २०१८ आरभ्य भारत-जापानयोः मध्ये पर्यायक्रमेण आयोज्यमानः अयं वार्षिक-अभ्यासः भारत–जापान-रक्षा-सहकार्यस्य महत्त्वपूर्णः अङ्गः अस्ति। सामूहिक-सुरक्षा-समस्या: तथा वैश्विक-आतंकवादस्य परिवर्तमानां प्रकृतिं दृष्ट्वा अस्य महत्त्वम् अधिकं वर्धितम्। समापन-समारोहे भारत-जापान-सेनयोः मध्ये गहन-संयुक्त-प्रशिक्षणस्य सफल-परिणतिः चिह्निता। अनेन अभ्यासेन उभय-देशयोः सामरिक-संबन्धाः अधिकं सुदृढीकृताः तथा क्षेत्रीय-शान्तिः, स्थिरता तथा उन्नत-रक्षा-सहकार्यं प्रति उभय-देशयोः संयुक्त-प्रतिबद्धता पुनः प्रतिपादिता। भारतीय-सेनया प्रकाशित-प्रेस-विज्ञप्त्या एषा सूचना प्रदत्ता।सेनया एकस्मिन् वक्तव्ये उक्तम् यत् अभ्यास-कालस्य अन्तर्गतं उभय-देशयोः सैनिकाः संयुक्तरूपेण प्रशिक्षणं कृत्वा पारस्परिक-सञ्चालन-क्षमतां तथा संयुक्त-अभियान-कौशलं सुदृढीकृतवन्तः। प्रशिक्षणस्य मुख्यं केन्द्रं आतंकवाद-विरोधी-अभियानानि, नगरीय-युद्ध-कौशलम् तथा जटिल-भूभागेषु युद्धाभ्यासः आसीत्। अस्मिन् अवसरे श्रेष्ठ-प्रक्रियाणां, सञ्चालन-विधीनां तथा व्यावसायिक-अनुभवानां आदान-प्रदानम् अपि कृतम्। सहैव शारीरिक-क्षमता, अस्त्र-प्रयोग-कौशलम् तथा क्षेत्र-प्रशिक्षण-कौशलम् अपि उन्नतम् अभवत्। अभ्यासेन परस्पर-संवादः, परम्पराणां संस्कृतेः च परिचयेन सौहार्दम् अपि वर्धितम्।अभ्यासस्य मुख्य-आकर्षणम् ‘आसाही-शक्ति’ इति अभ्यासः आसीत्, यः संयुक्त-प्रशिक्षणेन प्राप्त-मानकानां परीक्षणार्थं प्रमाणीकरण-अभ्यासरूपेण आयोजितः। अस्मिन् चरणे चौबटिया-प्रदेशे काल्पनिक-परिचालन-परिदृश्यस्य आधारेण ४८-होरा-दीर्घः क्षेत्र-अभ्यासः कृतः, यस्मिन् संयुक्त-बलैः आतंकवादिनः विरुद्धम् अभियानम् सञ्चालितम्। अस्मिन् भूभाग-विश्लेषणम्, कम्पनी-ऑपरेटिङ्ग-बेस-स्थापनम्, निरीक्षण-कार्यं, घात-व्यवस्था, गुप्त-सूचना-संग्रहः, ‘कॉर्डन-एण्ड-सर्च’ अभियानम्, विशेष-हेलिबोर्न-अभियानम्, कक्ष-प्रवेश-अभ्यासः तथा बन्धक-मोचन-अभ्यासः अपि अन्तर्भूताः आसन्। परिस्थित्याः उत्तम-बोधाय, समन्वय-वृद्धये तथा सञ्चालन-प्रभावकारितायाः अभिवृद्धये ड्रोन-सहिताः आधुनिक-निरीक्षण-प्रौद्योगिक्यः अपि उपयुज्यन्ते।
समापन-समारोहे जापान-स्थल-आत्मरक्षा-सेनायाः प्रथम-विभागस्य उप-सेनानायकः मेजर-जनरल त्सुनेहिरो यानागिदा तथा भारतीय-सेनायाः पक्षतः मुख्यालय-१४-कोरस्य चीफ-ऑफ-स्टाफ मेजर-जनरल सुधांशु: शर्मा उपस्थितौ आस्ताम्। ‘धर्म-गार्जियन’ अभ्यासस्य एषा सफल-परिणतिः भारत-जापान-रक्षा-सहभागिताया: सुदृढमानानां सम्बन्धानां तथा समकालीन-सुरक्षा-समस्याभ्यः संयुक्तरूपेण समक्षं कर्तुं उभय-देशयोः प्रतिबद्धतायाः सशक्तं प्रमाणम् अस्ति। अयं अभ्यासः उभय-देशयोः गाढ-सामरिक-सहभागियां दर्शयन् क्षेत्रीय-शान्तेः, स्थिरतायाः तथा रक्षा-सहकार्यस्य प्रति संयुक्त-संकल्पस्य अपि पुनः पुष्टि कृता।
हिन्दुस्थान समाचार / अंशु गुप्ता