रामगढ़े राष्ट्रिय कुष्ठ रोग उन्मूलन कार्यक्रमस्य तृतीयचरणस्य शुभारंभः
रामगढ़म्, 09 मार्चमासः (हि.स.)। रामगढजनपदे राष्ट्रियकुष्ठरोगउन्मूलनकार्यक्रमस्य तृतीयचरणस्य आरम्भः सोमवासरे कृतः। अस्य अभियानस्य शुभारम्भः सिविलसर्जनः डॉ नवलकुमारः तथा जिलाकुष्ठनिवारणपदाधिकारिणी डॉ तुलिकारानी इत्येतयोः उपस्थितौ अभवत्। कार्यक्रमस्य
अभियान की शुरुआत करते अधिकारी


अभियान चलाते अधिकारी


रामगढ़म्, 09 मार्चमासः (हि.स.)। रामगढजनपदे राष्ट्रियकुष्ठरोगउन्मूलनकार्यक्रमस्य तृतीयचरणस्य आरम्भः सोमवासरे कृतः। अस्य अभियानस्य शुभारम्भः सिविलसर्जनः डॉ नवलकुमारः तथा जिलाकुष्ठनिवारणपदाधिकारिणी डॉ तुलिकारानी इत्येतयोः उपस्थितौ अभवत्। कार्यक्रमस्य अन्तर्गतं जनपदे नवमार्चदिनाङ्कात् त्रयोविंशतिमार्चपर्यन्तं विशेषाभियानं सञ्चालयिष्यते।

अस्य अभियानस्य समये स्वास्थ्यकर्मिणः गृहेगृहे गत्वा सम्भावितकुष्ठरोगिणां परिचयं करिष्यन्ति तथा तान् समये परीक्षणाय उपचाराय च प्रेरयिष्यन्ति। तेन सह जनानां प्रति कुष्ठरोगस्य लक्षणानि, निवारणोपायाः तथा उपचारविधयः इत्येषां विषये जागरूकता अपि प्रसारयिष्यते।

अधिकारिणः उक्तवन्तः यत् कुष्ठरोगः पूर्णतया उपचारयोग्यः अस्ति तथा नियमितऔषधसेवनात् रोगी पूर्णतया स्वस्थः भवितुम् अर्हति। ते सामान्यजनान् अपि आह्वानं कृतवन्तः यत् यदि कस्यचित् व्यक्तेः शरीरे दागधब्बानि, सुन्नता अथवा त्वचायाम् असामान्यपरिवर्तनानि दृश्यन्ते तर्हि सः शीघ्रं समीपस्थस्वास्थ्यकेन्द्रे परीक्षणं करवेत्।

अस्य अभियानस्य अन्तर्गतं आशाकार्यकर्त्रियः, सहियाकार्यकर्त्रियः तथा अन्ये स्वास्थ्यकर्मिणः ग्रामेग्रामे गृहेगृहे च गत्वा जनान् जागरूकयिष्यन्ति तथा सम्भावितरोगिणां परिचयं कृत्वा तेषां कृते उचितोपचारव्यवस्थां कर्तुं प्रयत्नं करिष्यन्ति।

अस्मिन्नवसरे स्वास्थ्यविभागस्य अनेके पदाधिकारणः कर्मचारिणः च उपस्थिताः आसन्। तेषु अपरमुख्यचिकित्सापदाधिकारिणः, जिलाआरसीएचपदाधिकारिणः, जिलाकार्यक्रमप्रबन्धकः, डीपीएमयूविभागस्य सदस्याः, महामारीविशेषज्ञः तथा अन्ये स्वास्थ्यकर्मिणः सम्मिलिताः आसन्।-------------

हिन्दुस्थान समाचार