जबलपुरे अद्य भाजपा नेतॄणाम् एकत्रीकरणं, प्रशिक्षणं महाअभियानस्य उपवेशने सम्मेलिष्यति मुख्यमंत्री डॉ. यादवः
भाेपालम्, 09 मार्चमासः (हि.स.)। जबलपुर नगरे अद्य सोमवासरे भारतीय जनतादलस्य वरिष्ठनेतृणां समागमः भविष्यति। भाजपाया पंडित दीनदयाल उपाध्याय प्रशिक्षणमहाभियान २०२६ अन्तर्गतं संभागीयभाजपाकार्यालये रानीताल इत्यत्र महती बैठकाः आयोजिता अस्ति, यस्मिन् प्रद
जबलपुर में आज भाजपा नेताओं का जमावड़ा


भाेपालम्, 09 मार्चमासः (हि.स.)। जबलपुर नगरे अद्य सोमवासरे भारतीय जनतादलस्य वरिष्ठनेतृणां समागमः भविष्यति। भाजपाया पंडित दीनदयाल उपाध्याय प्रशिक्षणमहाभियान २०२६ अन्तर्गतं संभागीयभाजपाकार्यालये रानीताल इत्यत्र महती बैठकाः आयोजिता अस्ति, यस्मिन् प्रदेशस्य वरिष्ठनेतारः मन्त्रिणः शतशः कार्यकर्तारश्च भागं ग्रहीष्यन्ति।

अस्यां गोष्ठ्यां डॉ. मोहन यादव, उपमुख्यमन्त्री राजेन्द्र शुक्ला, प्रदेशाध्यक्षः हेमंत खंडेलवाल इत्यादयः अनेके मन्त्रिणः तथा सङ्गठनस्य वरिष्ठपदाधिकारी उपस्थिताः भविष्यन्ति। अस्मिन् प्रशिक्षणकार्यक्रमे जबलपुर, रीवा, शहडोल तथा छिंदवाड़ा संभागेभ्यः एकोनविंशतिजिलेभ्यः प्रायः चत्वारिशत् विषयवक्तारः कार्यकर्तारश्च सहभागी भविष्यन्ति। प्रशिक्षणकार्यक्रमस्य उद्देश्यः कार्यकर्तॄणां वैचारिकस्पष्टतां, सङ्गठनात्मककौशलं नेतृत्वक्षमतां च सुदृढां कर्तुम् अस्ति। कार्यक्रमे वैचारिकसत्राणि, सङ्गठनात्मकचर्चाः प्रशिक्षणगतिविधयश्च आयोजिताः भविष्यन्ति।

मुख्यमन्त्रिणः कार्यक्रमः—मुख्यमन्त्री डॉ. मोहनयादवः निर्धारितकार्यक्रमानुसारं प्रातः ११:४५ वादने डुमना एयरपोर्ट इत्यत्र आगमिष्यति तथा मध्याह्ने १२:१० वादने रानीतालस्थिते भाजपाकार्यालये आयोजिते कार्यक्रमे सहभागी भविष्यति। कार्यक्रमानन्तरं सः अपराह्णे २:२० वादने पुनः डुमना विमानपत्तनं गमिष्यति तथा २:३० वादने भोपाल नगरं प्रति प्रस्थितो भविष्यति।

उपवेशने अन्येऽपि मन्त्रिणः उपस्थिताः भविष्यन्ति। उपमुख्यमन्त्री राजेन्द्रशुक्लः प्रातः १०:३० वादने रीवा नगरात् जबलपुरं आगमिष्यति तथा ११ वादने प्रशिक्षणसत्रे वक्तारूपेण भागं ग्रहीष्यति। तथैव परिवहनतथा विद्यालयशिक्षामन्त्री उदय प्रताप सिंह प्रातः १० वादने नरसिंहपुर नगरात् जबलपुरं आगमिष्यति तथा कार्यशालायां सहभागी भविष्यति। अन्यथा पञ्चायत् तथा ग्रामीणविकासराज्यमन्त्री राधा सिंह अपि प्रशिक्षणशिविरे भागं ग्रहीष्यति।

भाजपायाः अस्मिन् संभागीयप्रशिक्षणकार्यक्रमे वरिष्ठनेतारः कार्यकर्तृभ्यः सङ्गठनस्य विचारधारा, कार्यप्रणाली तथा नेतृत्वसम्बद्धविषयेषु मार्गदर्शनं दास्यन्ति।

---------------

हिन्दुस्थान समाचार