Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०९ मार्चमासः (हि.स.)।संसदः केन्द्रीय–वित्तविवरण–सत्रस्य द्वितीयः चरणः अद्य आरभ्यते। एषः द्वि–अप्रैलपर्यन्तं प्रवर्तिष्यते। प्रथमदिने लोकसभाध्यक्षस्य ओमबिरला इत्यस्य विरुद्धम् विपक्षेण आनितस्य अविश्वास–प्रस्तावस्य (सूचना) प्रस्तुतीकरणं भविष्यति। एषः प्रस्तावः सदने विपक्षीय–सांसदैः मोहम्मदजावेद:, के. सुरेश: तथा डॉ. मल्लूरवि: इत्येतैः प्रस्तोष्यते।
भारतीय–जनता–पक्षेण नव–तथा दश–मार्चदिनाङ्कयोः कृते व्हिप् प्रेषितः। काङ्ग्रेस–दलेन अपि सर्वेभ्यः सदस्येभ्यः ०९–११ मार्चपर्यन्तं सदने उपस्थितिं कर्तुं व्हिप् प्रेषितः।
गत–मासे वित्तविवरण–सत्रस्य प्रथम–चरणे विपक्षेण लोकसभाया: महासचिवाय अविश्वास–प्रस्तावः समर्पितः आसीत्। तस्मिन् लोकसभाध्यक्षेण पक्षपातपूर्ण–रीत्या कार्यं कृतमिति आरोपं कृत्वा तस्य पदात् अपसारणस्य आग्रहः कृतः आसीत्। अस्मिन् प्रस्तावे काङ्ग्रेस:, समाजवादी–पक्ष:, डीएमके, वामपन्थी–दलानां तथा अन्येषां दलानां सदस्यैः सह ११८ सांसदैः हस्ताक्षराणि कृतानि आसन्।
अद्य चर्चाकाले बिरला लोकसभायाम् आसने न उपविष्टः सत्तापक्षस्य सदस्यैः सह सदने उपस्थितः सन् स्वस्य विरुद्धं कृतानां आरोपाणां उत्तरं दातुं शक्नोति। सदनस्य कार्यवाही उपाध्यक्षेन अथवा पैनल–ऑफ–चेयरपर्सन्स् मध्ये सम्मिलितेन सदस्येन संचाल्यते। अधुना लोकसभायाम् उपाध्यक्षस्य पदं रिक्तम् अस्ति, अतः पैनलमध्ये सम्मिलिताः सांसदाः एव कार्यवाहीं संचालयिष्यन्ति।
अस्य मध्ये तृणमूल–काङ्ग्रेस: अपि विपक्षस्य प्रस्तावस्य समर्थनं दास्यतीति घोषणां कृतवती। तृणमूल–काङ्ग्रेसस्य लोकसभायां २९ सांसदाः सन्ति। नियमानाम् अनुसारं स्पीकर-इत्यस्य अपसारणार्थं प्रस्तावः लोकसभायां साधारण–बहुमतेन पारितः भवति। वर्तमान–लोकसभायाम् एनडीए इत्यस्य समीपे प्रायः २९० अधिक–सांसदानां समर्थनम् अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता