जनाकाङ्क्षाणां पूर्तिः सर्वकारस्य संकल्पः, शिक्षा-स्वास्थ्य-क्रीडा: प्रमुख-क्षेत्राणि : मोदी
नवदिल्ली, 09 मार्चमास: (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे अवदत् यत् देशस्य जनानां आकाङ्क्षाणां पूर्तिः तस्य सर्वकारस्य मूलसंकल्पः अस्ति। शिक्षा, कौशलविकासः, स्वास्थ्यसेवा, पर्यटनम्, क्रीडा तथा संस्कृति इत्यादिनी क्षेत्राणि एतासां आकाङ्क्षा
प्रधानमंत्री नरेन्द्र मोदी वेबिनार को संबोधित करते हुए


नवदिल्ली, 09 मार्चमास: (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे अवदत् यत् देशस्य जनानां आकाङ्क्षाणां पूर्तिः तस्य सर्वकारस्य मूलसंकल्पः अस्ति। शिक्षा, कौशलविकासः, स्वास्थ्यसेवा, पर्यटनम्, क्रीडा तथा संस्कृति इत्यादिनी क्षेत्राणि एतासां आकाङ्क्षाणां साकारतायाः प्रमुखाः माध्यमाः सन्ति। सः शिक्षाव्यवस्थां वास्तविक-अर्थव्यवस्थया सह संयोजयितुं प्रक्रियायाः तीव्रीकरणस्य आवश्यकतां निर्दिष्टवान् तथा च कृत्रिमबुद्धिमत्ता (ए.आई.) तथा स्वचालनम् (ऑटोमेशन) इत्यादिषु विषयेषु विशेषं ध्यानं दातव्यमिति अपि अवदत्।

प्रधानमन्त्री ‘सबका साथ, सबका विकास – जन आकाङ्क्षाणां पूर्तिः’ इति विषये आयोजितस्य बजट-पश्चात् वेबिनार-श्रृंखलायाः चतुर्थकण्डिकां संबोधितवान्। अस्मिन् वेबिनारमध्ये विविधानां मंत्रालयानां विभागानां च अधिकारिणः, सहैव निजी-क्षेत्रस्य विशेषज्ञाः तथा नीतिनिर्मातारः अपि सहभागिन: अभवन्। प्रधानमन्त्री उक्तवान् यत् जनाकाङ्क्षाणां पूर्तिः केवलं एकः विषयः न, अपि तु सर्वकारस्य वित्तविवरणस्य मूलोद्देश्यः संकल्पश्च अस्ति।

सः अवदत् यत् शिक्षा, कौशलविकासः, स्वास्थ्यसेवा, पर्यटनम्, क्रीडा तथा संस्कृति इत्येषु क्षेत्रेषु क्रियमाणा: निवेशाः सुधाराश्च देशस्य विकासाय नूतनां दिशां दास्यन्ति। एतेषां माध्यमेन न केवलं यूनां कृते अवसराः वर्धिष्यन्ते, अपि तु राष्ट्रस्य अर्थव्यवस्था अपि सुदृढा भविष्यति।

स्वास्थ्य-क्षेत्रस्य विषये उल्लेखं कुर्वन् प्रधानमन्त्री अवदत् यत् सर्वकारस्य लक्ष्यं केवलं उपचार-आधारित-व्यवस्थायाः सीमायां नास्ति, अपि तु व्यापकस्य निवारक-स्वास्थ्य-प्रणाल्याः निर्माणम् अस्ति। गतवर्षेषु देशस्य स्वास्थ्यसंरचना द्रुतगत्या सुदृढा कृता अस्ति, तथा योगः आयुर्वेदश्च वैश्विकस्तरे व्यापकं स्वीकृतिं प्राप्तवन्तौ।

तेन उक्तं यत् देशस्य शताधिकेषु जनपदेषु नूतनाः चिकित्सालय-महाविद्यालयाः उद्घाटिताः सन्ति तथा आयुष्मानभारतयोजना तथा ‘आरोग्यमन्दिर’ इत्यादिनां माध्यमेन सामान्यजनानां स्वास्थ्यसेवायाः उपलब्धता विस्तारिता अस्ति। प्रधानमन्त्री ‘केयर-इकॉनमी’ इत्यस्य उद्भवमानं महत्त्वम् अपि निर्दिष्टवान् तथा जगति प्रशिक्षित-परिचारक-कर्मचारिणां याचना तीव्रतया वर्धते इति अवदत्। स्वास्थ्यविशेषज्ञेभ्यः युवान: अस्मिन् क्षेत्रे प्रशिक्षयितुं नूतन-प्रशिक्षण-आदर्शं प्रस्तावयितुं सः आह्वानं कृतवान्।

डिजिटल-स्वास्थ्यसेवानां विषये वदन् प्रधानमन्त्री अवदत् यत् टेली-चिकित्सा दूरवर्ती-प्रदेशेषु स्वास्थ्यसेवां प्रापयितुं महत्त्वपूर्णां भूमिकां निर्वहति। तथापि एताः सेवाः अधिकसुलभाः कर्तुं तथा जनजागरूकतां वर्धयितुं आवश्यकता अस्ति इति अपि सः उक्तवान्।

शिक्षाक्षेत्रे वदन् प्रधानमन्त्री अवदत् यत् भारतस्य यूनां परिवर्तिता चिन्तनशक्ति: ऊर्जा च देशस्य महान्तं बलम् अस्ति। अतः शिक्षाव्यवस्था अपि तदनुसारं विकसितव्या। नवीन-शिक्षा-नीतेः माध्यमेन शिक्षां रोजगार-उद्यमिताभ्यां सह संयोजयितुं सततप्रयत्नाः क्रियमाणाः सन्ति।

तेन उक्तं यत् भविष्यकाले शिक्षां वास्तविक-अर्थव्यवस्था तथा विपणस्य आवश्यकताभिः सह संयोजयितुं अतीव आवश्यकं भविष्यति। विशेषतया कृत्रिमबुद्धिमत्ता, स्वचालनम् तथा डिजिटल-अर्थव्यवस्था इत्येषु क्षेत्रेषु पाठ्यक्रमः प्रशिक्षणं च सुदृढं कर्तव्यमिति सः अवदत्।

एवीजीसी (एनीमेशन, विजुअल इफेक्ट्स, गेमिंग तथा कॉमिक्स) क्षेत्रस्य उल्लेखं कुर्वन् सः अवदत् यत् भारतं शीघ्रं नवाचार-आधारित-अर्थव्यवस्थां प्रति अग्रे सरति। शिक्षासंस्थानानि उद्योग-सहयोग-आधारित-शोध-शिक्षण-केंद्राणि रूपेण विकसितानि भवेयुः इति अपि तेन आह्वानं कृतम्, यतः छात्राणां वास्तविक-जगतः अनुभवः प्राप्यते।

प्रधानमन्त्री विज्ञान-प्रौद्योगिकी-अभियांत्रिकी-गणित (STEM) क्षेत्रेषु वर्धमानां महिला-सहभागिताम् अपि प्रशंसितवान्। सः अवदत् यत् सर्वकारः भविष्य-प्रौद्योगिकीषु कन्याभ्यः समान-अवसरान् दातुं प्रतिबद्धा अस्ति। युवा-शोधकर्तृभ्यः नूतनविचारेषु प्रयोगं नवाचारं च कर्तुं अवसरः दातुं सुदृढं शोध-परिसंस्थान-तन्त्रं निर्मातव्यम् इति अपि सः बलं दत्तवान्।

क्रीडाक्षेत्रस्य महत्त्वं निर्दिशन् मोदी अवदत् यत् स्वस्थाः अनुशासिताश्च युवानः कस्यापि राष्ट्रस्य शक्तेः आधारा: भवन्ति। ‘खेलो इंडिया’ कार्यक्रमस्य उल्लेखं कुर्वन् सः अवदत् यत् तस्य माध्यमेन लघु-नगराणि दूरवर्ती-प्रदेशाश्च स्थितानां प्रतिभानां अन्वेषणं प्रोत्साहनं च क्रियते।

प्रधानमन्त्री अवदत् यत् अन्तरराष्ट्रीय-प्रतियोगितासु श्रेष्ठं प्रदर्शनं कर्तुं यून: क्रीडकान् अद्यैव सज्जीकर्तुं आवश्यकम्। क्रीडा-संस्थाः अधिकव्यावसायिकाः कर्तव्याः तथा क्रीडकानां कृते संरचित-आर्थिक-सहायता वर्धनीया इति अपि सः उक्तवान्, येन अग्रिमेषु कॉमनवेल्थक्रीडा तथा ओलम्पिकप्रतियोगितासु भारतस्य प्रदर्शनं श्रेष्ठतरं भवेत्।

पर्यटन-संस्कृति-क्षेत्रयोः रोजगारस्य अपरिमिताः सम्भावनाः सन्ति इति निर्दिशन् मोदी अवदत् यत् परम्परागत-पर्यटन-स्थलानां अतिरिक्तं नूतन-पर्यटन-केंद्राणां विकासः अपि क्रियते। एतेन नगराणां परिचय: सुदृढ: भविष्यति तथा स्थानीय-अर्थव्यवस्था अपि गतिम् प्राप्स्यति।

तेन उक्तं यत् पर्यटन-क्षेत्रे प्रशिक्षित-मार्गदर्शकाः, उत्तम-आतिथ्य-कौशलम्, डिजिटल-संयोजनम् तथा स्थानीय-समुदायस्य सहभागिता प्रमुखाः स्तम्भाः भवन्ति। तेन सह स्वच्छता तथा सतत-विकास-सिद्धान्ताः अपि प्राधान्येन स्वीकरणीयाः।

अन्ते प्रधानमन्त्री अवदत् यत् संस्थानानां, उद्योगस्य तथा शिक्षाविदां मध्ये उत्तमः समन्वयः देशस्य प्रगतिं अधिकं तीव्रां कर्तुं शक्नोति। सः विश्वासं व्यक्तवान् यत् अस्मिन् वेबिनारमध्ये जाताः चर्चाः भविष्याय दृढं मार्गदर्शनं प्रदास्यन्ति तथा विकसित-भारतस्य सुदृढं आधारं स्थापयिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता