टीम इंडिया इत्यस्य सफलता, संयमः आत्मविश्वासश्च इत्येषां शक्तेः प्रमाणम् - प्रधानमंत्री मोदी
नव दिल्ली, 09 मार्चमासः (हि.स.)। नरेन्द्र मोदिना आईसीसी पुरुष टी20 क्रिकेट विश्वचषकस्पर्धायां भारतीयदलस्य ऐतिहासिकविजयस्य प्रशंसा कृता, तां च जीवनस्य महान् लक्ष्यप्राप्तेः जीवंतोदाहरणरूपेण निरूपितवान्। तेन उक्तं यत् टीम् इण्डिया इत्यस्य एषा सिद्ध
प्रधानमंत्री नरेन्द्र मोदी


नव दिल्ली, 09 मार्चमासः (हि.स.)।

नरेन्द्र मोदिना आईसीसी पुरुष टी20 क्रिकेट विश्वचषकस्पर्धायां भारतीयदलस्य ऐतिहासिकविजयस्य प्रशंसा कृता, तां च जीवनस्य महान् लक्ष्यप्राप्तेः जीवंतोदाहरणरूपेण निरूपितवान्। तेन उक्तं यत् टीम् इण्डिया इत्यस्य एषा सिद्धिः केवलं क्रीडाविजयः न, अपि तु दृढसंकल्पस्य संयमस्य आत्मविश्वासस्य च शक्तेः प्रमाणम् अस्ति।

प्रधानमन्त्री मोदी महोदयः X इत्यस्मिन् लिखितवान्— “टी२० क्रिकेट विश्व कप विजित्य भारतीयदलम् एतत् सिद्धं कृतवान् यत् दृढसंकल्पसंयमात्मविश्वासानां समन्वयः एव जीवने सफलतायाः कुञ्जिका अस्ति। एषा विजयः अपि दर्शयति यत् सम्यक् दिशि कृतपरिश्रमेण प्रत्येकं लक्ष्यं प्राप्तुं शक्यते।”

प्रधानमन्त्रिणा एकं संस्कृतसुभाषितम् अपि सह कृतम्—

“अभीप्सां स्वात्मनो रक्षाऽविरतं सुस्थिरं तया।

यत्नमातिष्ठ धैर्येण ततः सिद्धिर्भवेद् ध्रुवम्॥”

अस्य अर्थं व्याख्याय सः अवदत् यत् जीवनस्य उन्नतिं इच्छन् कश्चन अपि जनः दृढतया लग्नतया च प्रयत्नं कुर्यात्। धैर्येण सह निरन्तरं कृतः कठिनपरिश्रमः नूनं सफलतायाः मार्गं प्रशस्तं करिष्यति।

---------------

हिन्दुस्थान समाचार