प्रधानमन्त्री मोदी अद्य ‘पुन:–वित्तविवरण -वेबिनार’ इति सम्बोधयिष्यति
नवदिल्ली, ०९ मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अद्य वीडियो–सम्मेलन–माध्यमेन ‘सबका साथ, सबका विकास – जनानां आकाङ्क्षाणां पूर्तिः’ इति विषयकं पोस्ट–वित्तविवरण–वेबिनार-इति सम्बोधयिष्यति। अस्मिन् वेबिनारमध्ये शिक्षया तथा कौशल–विकासेन, स्वास्
प्रधानमंत्री नरेन्द्र मोदी। फोटो - फाइल


नवदिल्ली, ०९ मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अद्य वीडियो–सम्मेलन–माध्यमेन ‘सबका साथ, सबका विकास – जनानां आकाङ्क्षाणां पूर्तिः’ इति विषयकं पोस्ट–वित्तविवरण–वेबिनार-इति सम्बोधयिष्यति। अस्मिन् वेबिनारमध्ये शिक्षया तथा कौशल–विकासेन, स्वास्थ्येन तथा आयुष–क्षेत्रेण, पर्यटनेन आतिथ्य–क्षेत्रेण च सह विविधेषु क्षेत्रेषु अनेकानि ब्रेकआउट्–सत्राणि आयोज्यन्ते। एषा सूचना प्रधानमन्त्री–कार्यालयेन प्रदत्ता।

प्रधानमन्त्री-कार्यालयस्य अनुसारं एतेषु सत्रेषु शिक्षातः आजीविकापर्यन्तं सुदृढस्य मार्गस्य निर्माणं, एनीमेशन–विजुअल–इफेक्ट्स–गेमिङ्ग–कॉमिक्स (एवीजीसी) क्षेत्राय सामग्री–निर्मातृ–प्रयोगशालानां स्थापनम्, सहयोगी–स्वास्थ्य–व्यवसायिनां तथा परिचारकाणां प्रशिक्षणस्य विस्तारः इत्यादिषु विषयेषु चर्चा भविष्यति।

एतदतिरिच्य क्षेत्रीय–चिकित्सा–केन्द्राणां तथा नूतनानाम् आयुष–संस्थानानां स्थापनम्, आतिथ्य–क्षेत्रे कौशल–विकासः, सतत–पर्यटन–पन्थानां विकासः, उत्तर–पूर्व–क्षेत्रे बौद्ध–परिपथस्य तथा परम्परा–पर्यटनस्य प्रोत्साहनम् इत्यादयः विषयाः अपि विचार–विमर्शस्य अङ्गत्वेन भविष्यन्ति। पोस्ट–वित्तविवरण–वेबिनार इति सर्वकारस्य, उद्योग–जगतः तथा विविध–क्षेत्रेषु विशेषज्ञाणां मध्ये सहयोगात्मक–संवादस्य मंचं प्रदास्यति, येन वित्तविवरणे प्रस्तुतां नीतिगत–दृष्टिं व्यावहारिक–रणनीतिषु परिवर्तयितुं शक्यते। एताभ्यः चर्चाभ्यः नीतिनां प्रभावी–क्रियान्वयनस्य तथा समावेशी–विकासस्य गतिवर्धनाय विचारान् प्राप्तुं अपेक्षा वर्तते।

हिन्दुस्थान समाचार / अंशु गुप्ता