Enter your Email Address to subscribe to our newsletters

श्रीनगरम् 09 मार्चमासः (हि.स.)।
अमेरिका–इजराइलयोः हवाईआक्रमणे ईरानदेशस्य सर्वोच्चनेता अयातुल्ला अली खामेनेई इत्यस्य मृत्युविरोधेन जातेषु प्रदर्शनेषु कारणेन कश्मीरप्रदेशे सप्ताहपर्यन्तं बन्दाः शिक्षणसंस्थानाः सोमवासरे पुनः उद्घाटिताः।
एकः अधिकारी अवदत् यत् विद्यालयाः तथा अन्यानि उच्चशिक्षणसंस्थानानि अद्यतः पुनः कार्यं आरब्धवन्ति। सोमवासरस्य प्रातःकाले विद्यालयवेषधारिणः विभिन्नवयःसमूहस्य छात्राः स्वस्वसंस्थानानि प्रति प्रस्थिताः।
२८ फेब्रुवरीदिनाङ्के खामेनेई इत्यस्य हत्याया अनन्तरं घाटीप्रदेशे जातेषु प्रदर्शनेषु कारणेन गतसोमवासरात् आरभ्य विद्यालयाः महाविद्यालयाः विश्वविद्यालयाः च सप्ताहपर्यन्तं बन्दाः कृताः आसन्।
शीतकालीनावकाशस्य अनन्तरं माध्यमिकविद्यालयाः तथा उच्चशिक्षणसंस्थानानि २३ फेब्रुवरीदिनाङ्के उद्घाटितानि आसन्, यदा मध्यविद्यालयाः तथा प्राथमिकविद्यालयाः २ मार्चदिनाङ्के उद्घाटनीयाः आसन्। किन्तु प्रदर्शनेषु कारणेन तेषां उद्घाटने विलम्बः अभवत्।
---------------
हिन्दुस्थान समाचार