Enter your Email Address to subscribe to our newsletters

तिरुचिरापल्ली, ०९ मार्चमास: (हि.स.)। तमिलनाडु-राज्ये निर्वाचन-परिस्थितिः शनैः शनैः उष्णतां प्राप्नोति। अस्यैव क्रमस्य अन्तर्गतं सोमवासरे तिरुचिरापल्ली-जनपदस्य सिरुगनूर-प्रदेशे द्रविड़-मुनेत्र-कड़गम् (द्रमुक) दलस्य पदाधिकरिणां राज्यस्तरीय-सम्मेलनम् आयोज्यते। एतत् सम्मेलनम् अग्रिम-विधानसभा-निर्वाचनात् पूर्वं दलस्य रणनीतिः तथा निर्वाचन-घोषणानां दृष्ट्या अत्यन्तं महत्त्वपूर्णम् इति मन्यते।
“मुथुवेल-करुणानिधि-स्टालिनः निरन्तरं प्रवर्तताम्, तमिलनाडुः विजयी भवतु” इति शीर्षकेन आयोज्यमानम् एतत् सम्मेलनम् सांस्कृतिक-कार्यक्रमैः सह अपराह्णे त्रिवादने आरभ्यते। राज्यस्य एम. के. स्टालिनः सायं प्रायः ५:३० वादने सम्मेलन-स्थलं प्राप्स्यति तथा च ११०-फुट-उन्नते ध्वजस्तम्भे दलस्य ध्वजं आरोह्य सम्मेलनस्य उद्घाटनं करिष्यति।मुख्यमन्त्रिणः मञ्च-प्राप्तये प्रायः अर्ध-किलोमीटर-दीर्घः विशेषः ‘रैम्प’-मार्गः निर्मितः अस्ति। तेन मार्गेण गच्छन् सः कार्यकर्तॄणां अभिवादनं स्वीकुर्वन् मञ्चं प्राप्स्यति। सम्मेलनस्य अध्यक्षतां द्रमुक-युवा-विभागस्य सचिवः तथा राज्यस्य उपमुख्यमन्त्री उदयनिधि-स्टालिनः करिष्यति, यदा मन्त्री के.एन.नेहरू स्वागत-भाषणं दास्यति। ततः परं दलस्य अनेके वरिष्ठ-नेतारः स्व-विचारान् प्रस्तोष्यन्ति तथा च विविधाः प्रस्तावाः अनुमोदिताः भविष्यन्ति। अन्ते मुख्यमन्त्री स्टालिनः मुख्य-संबोधनं करिष्यति।वर्षे २०२१ तमे विधानसभानिर्वाचनस्य समये अपि द्रमुक-दलस्य राज्य-सम्मेलनम् अस्मिन्नेव तिरुचिरापल्ली-जनपदस्य सिरुगनूर-प्रदेशे आयोजितम् आसीत्। तस्मिन् सम्मेलने मुख्यमन्त्रीस्टालिनेन महिलानां कृते प्रतिमासं १०००-रूप्यक-सहाय्य-राश्या सह सप्त प्रमुखानि निर्वाचन-प्रतिज्ञानि घोषितानि आसन्।
अतः मन्यते यत् अस्मिन् वर्षे अपि सम्मेलनस्य समये मुख्यमन्त्री कतिचन महत्त्वपूर्णाः घोषणाः तथा निर्वाचन-प्रतिज्ञान् कर्तुं शक्नोति।मन्त्री के.एन.नेहरू पत्रकारैः सह संवादे उक्तवान् यत् एतत् सम्मेलनम् नूतन-घोषणाभिः सह ऐतिहासिकं सिद्ध्येत्। तेन संकेतः अपि दत्तः यत् द्रमुक-दलस्य निर्वाचन-घोषणापत्रे सम्बन्धिताः केचन निर्णयाः अद्यैव मुख्यमन्त्रिणा घोष्यन्ते।मुख्यमन्त्री एम.के.स्टालिनः पूर्वमेव उक्तवान् यत् अस्मिन् सम्मेलने प्रायः दश-लक्षाधिकाः पदाधिकरिणः तथा कार्यकर्तारः सहभागिन: भविष्यन्ति। अस्य कृते प्रायः ६५०-एकर-परिमिते क्षेत्रे विशालः सम्मेलन-प्राङ्गणः निर्मितः अस्ति। प्रायः ५०,००० वाहनानां पार्किंग-व्यवस्था अपि कृता अस्ति।
जनसमूहस्य सुचारु-आवागमनार्थं नव प्रवेश-द्वाराणि निर्मितानि सन्ति। तदतिरिक्तं अत्याधुनिक-एलईडी-पर्दैः सह विशालः मञ्चः, ११०-फुट-उन्नतः ध्वजस्तम्भः, तथा सर्वेषां सहभागिनां कृते शाकाहार-मांसाहार-भोजनस्य व्यवस्था, आसन-व्यवस्था, पेय-जलम् तथा अल्पाहार-सुविधाः अपि उपलब्धाः कृताः सन्ति।
द्रमुक-दलस्य अनुसारं अस्य सम्मेलनस्य कृते अत्यन्तं भव्याः तथा व्यापकाः व्यवस्थाः कृताः सन्ति।
उल्लेखनीयम् अस्ति यत् तमिलनाडु-राज्ये शीघ्रमेव मुख्य-निर्वाचन-आयोगेन विधानसभानिर्वाचनस्य तिथयः घोषिताः भविष्यन्ति। अस्मिन् निर्वाचने द्रमुक तथा अन्नाद्रमुक-दलयोः पक्षाः निर्वाचन-समरे प्रवेष्टुं सज्जाः सन्ति, यदा नाम-तमिलर-कच्ची स्वयमेव निर्वाचनं कर्तुं घोषितवती। अपि च तमिलगा-वेत्रि-कळगम् (तवेक) इत्यस्य स्थितिः अद्यापि स्पष्टा नास्ति।
राजनीतिक-विश्लेषकानां अनुसारं द्रमुक तथा अन्नाद्रमुक-दलयोः गठबन्धनं प्रायः निश्चितम् इति मन्यते। वर्तमानकाले सत्तारूढा द्रमुक निर्वाचन-्धावने अग्रे अस्ति तथा सहयोगि-दलैः सह आसन-विभाजनस्य अन्तिम-निर्णयं कर्तुं प्रवृत्तं अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता