निर्वाचन-हिंसायाः विषये आयोगः ‘शून्य-सहनशीलता-नीतिम्’ अनुसरिष्यति - ज्ञानेशकुमारः
कोलकाता, ०९ मार्चमास: (हि.स.)। पश्चिमबङ्गाले अग्रिमस्य विधानसभानिर्वाचनस्य सिद्धिनां मध्ये भारतनिर्वाचन-आयोगस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः राजनीतिक-दलान् आश्वासितवान् यत् पश्चिमबङ्गाले स्वतन्त्रं निष्पक्षं शान्तिपूर्णं च निर्वाचनं सुनिश्चित
चुनाव आयोग की बैठक


कोलकाता, ०९ मार्चमास: (हि.स.)। पश्चिमबङ्गाले अग्रिमस्य विधानसभानिर्वाचनस्य सिद्धिनां मध्ये भारतनिर्वाचन-आयोगस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः राजनीतिक-दलान् आश्वासितवान् यत् पश्चिमबङ्गाले स्वतन्त्रं निष्पक्षं शान्तिपूर्णं च निर्वाचनं सुनिश्चितं कर्तुं आयोगः सर्वाणि आवश्यकानि पदानि स्वीकरिष्यति। सः स्पष्टतया अवदत् यत् निर्वाचन-हिंसायाः विषये आयोगस्य नीति: “शून्य-सहनशीलता” इति भविष्यति।

कोलकाता-नगरे सोमवासरे आयोजितायां सभायां ज्ञानेशकुमारः अवदत् यत् भारते निर्वाचनानि पूर्णतया विधेः अनुसारं आयोजितानि भवन्ति तथा निर्वाचन-प्रक्रियायाः निष्पक्षतां रक्षितुं आयोगः किमपि अवशिष्टं न करिष्यति। अस्यां सभायां निर्वाचनायुक्तौ सुखबीरसिंहसंधू तथा विवेकजोशी, पश्चिमबङ्गालस्य मुख्यनिर्वाचनाधिकारी तथा आयोगस्य अन्ये वरिष्ठाधिकारिण: अपि उपस्थिताः आसन्।

सूत्राणां अनुसारं, अस्याः सभायाः उद्देश्यं विभिन्न-राजनीतिक-दलानां चिन्ताः विचारान् च श्रोतुं तथा निर्वाचन-प्रक्रियां अधिकं सुदृढां कर्तुं तेषां सहभागितां सुनिश्चेतुं आसीत्। सभा व्यवस्थित-रीत्या संचालिता, यस्मिन् प्रत्येकस्मै राजनीतिक-दलाय स्वमतं प्रस्तोतुं प्रायः १५ निमेषानां समयः दत्तः।

अस्यां सभायां अनेकानां राष्ट्रिय-राज्यस्तरीय-दलानां प्रतिनिधयः सहभागिनः अभवन्। एतेषु आम-आदमीपक्ष:, भारतीयजनतापक्ष:, भारतीयकम्युनिस्टपक्ष:, भारतीयराष्ट्रीयकांग्रेस: तथा नेशनलपीपुल्सपक्ष: इत्येतासां प्रतिनिधयः उपस्थिताः आसन्। राज्यस्तरीय-दलेषु ऑल-इंडिया-फॉरवर्ड-ब्लॉक तथा ऑल-इंडिया-तृणमूल-कांग्रेस: इत्येतयोः प्रतिनिधयः अपि सभायां भागं गृहीतवन्तः।सभायां केचन दलानि पश्चिमबङ्गाले प्रवर्तमानस्य मतदाता-सूच्याः विशेष-गहन-पुनरीक्षणस्य प्रशंसाम् अपि अकुर्वन्। आयोगस्य अधिकारिणां अनुसारं, केचन प्रतिनिधयः विश्वासं व्यक्तवन्तः यत् एषा प्रक्रिया मतदाता-सूचिं अधिकां यथार्थां कर्तुं साहाय्यं करिष्यति।

एतेन सह अनेकानि दलानि निर्वाचनकाले न्याय-व्यवस्थायाः स्थितिं प्रति चिन्तां अपि व्यक्तवन्ति। ते मतदातॄणां भयभीतकरणं निवारयितुं कठोरपदानि स्वीकर्तुं आग्रहं कृतवन्तः। केचन प्रतिनिधयः निर्वाचनकाले अपक्वविस्फोटा:, अवैध-आयुधानां प्रयोगस्य तथा धनबल-बाहुबलयोः प्रभावस्य सम्भावनां अपि व्यक्तवन्तः।

राजनीतिक-दलैः शान्तिपूर्णं मतदानं सुनिश्चेतुं बहुसंख्यकेषु केन्द्रीय-सशस्त्र-आरक्षक-बलेषु नियुक्तेः अपि आग्रहः कृतः। तदतिरिक्तं केचन पक्षा: विचारान् दत्तवन्तः यत् मतदानं एकस्मिन् द्वयो: वा चरणयोः आयोज्येत, येन हिंसाया: सम्भावनां न्यूनतां गच्छेत् तथा प्रक्रिया सुचारु-रीत्या सम्पन्ना भवेत्।

एतासां चिन्तानां प्रत्युत्तररूपेण मुख्यनिर्वाचनायुक्तः पुनरुक्तवान् यत् आयोगः पारदर्शी-निष्पक्ष-रीत्या निर्वाचनं कर्तुं प्रतिबद्धः अस्ति। सः अपि अवदत् यत् मतदाता-सूच्याः विशेष-गहन-पुनरीक्षण-प्रक्रिया (एसआईआर) पूर्ण-पारदर्शितया सम्पन्ना अस्ति।

मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः अवदत् यत् मतदाता-सूच्यां नूतन-नामानि योजयितुं, नामानि अपसारयितुं वा विवरणेषु संशोधनं कर्तुं प्रपत्राणि ६, ७, ८ अद्यापि समर्पयितुं शक्यन्ते। सभायाः अन्ते विभिन्न-राजनीतिक-दलानां प्रतिनिधयः आगामि निर्वाचनं शान्तिपूर्णं हिंसारहितं च कर्तुं आयोगाय पूर्णसहयोगस्य आश्वासनं दत्तवन्त:।

हिन्दुस्थान समाचार / Dheeraj Maithani