Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 09 मार्च (हि.स.)। लखनऊस्थिते चौधरीचरणसिंह-अन्ताराष्ट्रिय-विमानतले इंडिगो-विमाने तान्त्रिकदोषः उत्पन्नः। अस्मात् कारणात् उत्तरप्रदेश-सर्वकारस्य उपमुख्यमन्त्री केशवप्रसाद-मौर्येण तथा ब्रजेश-पाठकेन सह सर्वे यात्रिण: प्रायः एकहोरापर्यन्तं विमानमध्ये एव अवरुद्धाः आसन्।
विमानतलस्य प्रशासनिक-अधिकारिणां अनुसारम्, अमौसी-विमानतलात् इंडिगो-विमानस्य 6E505 संख्या युक्ता उड्डयन-सेवा अद्य प्रातः कोलकातानगरं प्रति गन्तुं निर्धारिताऽभवत्। किन्तु तान्त्रिकदोषस्य कारणेन विमानस्य प्रस्थानं प्रायः एकहोरा विलम्बितम् अभवत्। अस्मिन् काले राज्य-सरकारस्य उभौ उपमुख्यमन्त्रिभ्यां सह सर्वे यात्रिण: विमानमध्ये एव स्थिताः आसन्।उभौ उपमुख्यमन्त्रिणौ दलस्य एकस्यां सभायां भागं ग्रहीतुं कोलकातानगरं गच्छन्तौ स्तः। अनन्तरं विमानस्य दोषः सम्यक् परिष्कृतः, ततः परं तत् विमानं प्रातः 8:59 वादने प्रस्थितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता