Enter your Email Address to subscribe to our newsletters

डिब्रूगढ़म् (असमः), ०१ अप्रैलमासः (हि.स.)। असम-विधानसभा-निर्वाचनम् २०२६ दृष्ट्वा समग्रे राज्ये निर्वाचन-प्रचार-अभियानं पूर्ण-वेगेन प्रवर्तते। अग्रिमे ९ अप्रैल-मासे राज्यस्य १२६ विधानसभासनेषु भवितव्यस्य मतदानस्य कृते जनतायां उत्साहः दृश्यते, शासक-पक्षः विपक्षः च उभौ अपि स्व-प्रचार-अभियानं तीव्रतया सञ्चालयतः। राज्ये सत्तारूढ-पक्षस्य भाजपाया: शीर्ष-नेतॄणां निरन्तरं प्रचार-अभियानं प्रवर्तते। अस्मिन् मध्ये केन्द्रीय-मन्त्री अमित-शाहः, राजनाथ-सिंहः इत्येतयोः प्रचारानन्तरं प्रधानमन्त्री नरेन्द्रमोदी अद्य धेमाजी-जनपदस्य गोगामुखे विश्वनाथे च द्वयोः निर्वाचन-जनसभयोः सहभागं करिष्यति।
उल्लेखनीयम् अस्ति यत् प्रचार-अभियाने भागं गृहीतुं प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासर-रात्रौ डिब्रूगढ़म् आगतः। रात्रौ ८:४० वादने मोदी मोहनबाड़ी-विमानतले अवतीर्णः। ततः प्रधानमन्त्री विशाल-समूहेन सह मोहनबाड़ी-विमानतलात् मनोहारी-रिसॉर्ट-इति प्रति प्रस्थितः। सः रात्रिं मनोहारी-रिसॉर्ट्-मध्ये व्यतीतवान्।अद्य गोगामुखे प्रातः ११ वादने निर्वाचन-जनसभायां प्रधानमन्त्री सहभागं करिष्यति। प्रातः १०:१५ वादने हेलिकॉप्टरविमानेन गोगामुखं प्रति प्रस्थितः भविष्यति। धेमाजी-लखीमपुर-जनपदयोरभ्यर्थिनां कृते सः प्रचारं करिष्यति। प्रधानमन्त्री भाजपापक्षस्य अभ्यर्थिनः डॉ.रनोज-पेगू तथा नव-कुमार-दलै इत्येतयोः समर्थनार्थं प्रचारं करिष्यति।
प्रधानमन्त्री मोदी गोगामुखात् विश्वनाथं गमिष्यति। विश्वनाथे अपराह्णे एकवादने निर्वाचन-सभायां सहभागं करिष्यति। विश्वनाथ-जनपदस्य त्रिषु विधानसभाक्षेत्रेषु- विश्वनाथ-बिहाली-गहपुर-भाजपा-अभ्यर्थिभिः रंजीत-दत्तः, पल्लवलोचन-दासः, उत्पल-बोरा इत्येतैः सह निर्वाचन-प्रचारं करिष्यति।
अस्मिन् मध्ये बिहाली-क्षेत्रस्य कूलागुरी-प्राङ्गणे अस्याः प्रचार-सभायाः सज्जता प्रायः पूर्णा कृता। बिहाली-विधायकः दिगन्त-घाटवालः अवदत् यत् प्रधानमन्त्रिणः जनसभायां प्रायः ७० सहस्र-जनानां उपस्थितेः अपेक्षा अस्ति। प्रधानमन्त्रिणः आगमनेन भाजपा-नेतारः कार्यकर्तारश्च अत्यन्तं आशान्विताः सन्ति। तस्य आगमनं दृष्ट्वा विश्वनाथ-जनपदे दृढा सुरक्षा-व्यवस्था अपि निर्मिता अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता