Enter your Email Address to subscribe to our newsletters

- पुरु शर्मा
राष्ट्रिय स्वयंसेवक संघस्य शतवार्षिकीपूर्त्यवसरे देशव्यापि तस्य विचारधारा, उपलब्धयः, योगदानं च विषये व्यापकः विमर्शः प्रवर्तते। अस्मिन् सन्दर्भे ‘मीडिया विमर्श’ इत्यस्य ‘आरएसएस@100’ विशेषाङ्कस्य प्रकाशनं महत्त्वपूर्णम् अस्ति। अयं विशेषाङ्कः संघसम्बद्धेषु सामयिकेषु चर्चितेषु विषयेषु प्रामाणिकां सूचनां प्रददाति। माखनलाल चतुर्वेदी राष्ट्रिय पत्रकारिता एवं संचार विश्वविद्यालयस्य सहायकप्राध्यापकः लेखकश्च डॉ. लोकेन्द्र सिंहः अतिथिसम्पादकः सन्ति। ते संघविषयेषु निरन्तरं लिखन्ति। तेन रचिते द्वे प्रमुखे पुस्तके ‘संघ दर्शन अपने मन की अनुभूति’ तथा ‘राष्ट्रध्वज एवं आरएसएस’ अपि उल्लेखनीयौ स्तः।
डॉ. सिंहस्य कुशलसम्पादनेन सिद्धः अयं विशेषाङ्कः संघस्य शताब्दीयात्रां केवलं कस्यचित् संस्थायाः इतिहासरूपेण न, अपितु भारतस्य सांस्कृतिकराष्ट्रियचेतनाया पुनर्जागरणस्य गाथारूपेण प्रस्तुतयति। अयं विशेषाङ्कः तेषां सर्वेषां कृते उपयोगी अस्ति ये संघं ज्ञातुं सम्यक् अवगन्तुं च इच्छन्ति। वक्तुं युक्तं यत् अयं सन्दर्भग्रन्थवत् अस्ति।
‘मीडिया विमर्श’ इत्यस्य परामर्शकसम्पादकः प्रो. संजय द्विवेदी स्वस्य सम्पादकीयलेखे ‘दिल से समझिए आरएसएस को’ इत्यत्र स्पष्टतया ताः भ्रान्तयः निराकरोति याः प्रायः बौद्धिकजगति संघविरुद्धं प्रचार्यन्ते। तेनोक्तं यत् संघः स्वकार्यपद्धत्याः कारणात् प्रचारात् दूरं तिष्ठति, अतः तस्य वास्तविकच्छवि तथा सेवाकार्याणां सत्यं प्रायः सम्पूर्णतया प्रकाशं न गच्छति।
अस्य विशेषाङ्कस्य प्रमुखविशेषता तस्य व्यापकता अस्ति, यत्र देशस्य शीर्षनेतृत्वात् आरभ्य संघस्य वरिष्ठप्रचारकपर्यन्तं विचाराः संगृहीताः सन्ति। डॉ. लोकेन्द्र सिंहः राष्ट्रीय स्वयंसेवक संघस्य सरसंघचालकः डॉ. मोहन भागवत, प्रधानमन्त्री नरेन्द्र मोदी, पूर्वराष्ट्रपतिः रामनाथ कोविन्द, सरकार्यवाहः दत्तात्रेय होसबाले, रक्षामन्त्री राजनाथ सिंह, मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादव तथा वरिष्ठप्रचारकाः श्रीधर पराड़करो, निखिलेश माहेश्वरी, कैलाश चन्द्रः, सदानन्द सप्रे, हितानन्द शर्मा इत्यादीनां विचारान् संगृह्य पाठकानां समक्षं यथार्थदृष्टिकोणं प्रस्तुतवान् अस्ति। अन्येषां लेखकानां लेखाः अपि अत्र समाविष्टाः सन्ति।
संघस्य वर्तमानसरकार्यवाहस्य दत्तात्रेय होसबाले इत्यस्य तथा अन्येषां वरिष्ठपदाधिकाऱिणां वक्तव्यैः एतत् स्पष्टं भवति यत् संघस्य उद्देश्यं कस्यचित् पृथग्गुटस्य निर्माणं न, अपितु सम्पूर्णसमाजस्य संगठनं सामर्थ्यवृद्धिश्च अस्ति। प्रधानमन्त्री नरेन्द्र मोदी स्वलेखे संघं ‘अनादि राष्ट्रचेतनायाः पुण्यावतारः’ इति वर्णयन् व्यक्तिनिर्माणद्वारा राष्ट्रनिर्माणस्य तस्य अद्वितीयां कार्यपद्धतिं प्रशंसति। पूर्वराष्ट्रपतिः रामनाथ कोविन्द डॉ. हेडगेवार तथा बाबा साहेब अम्बेडकरयोः विचारयोः साम्यं प्रदर्शयन् संघस्य सर्वसमावेशिदृष्टिं प्रतिपादयति। सम्पादकः डॉ. लोकेन्द्र सिंहः स्वलेखे संघस्य शतवर्षीययात्रां पञ्चसु चरणेषु विभज्य दर्शयति यत् कथं संघः उपहासम् उपेक्षां विरोधं च अतिक्रम्य अद्य समाजस्य सज्जनशक्त्या सह एकरसभावं प्राप्तवान्।
अस्य विशेषाङ्कस्य विविधेषु लेखेषु एतत् अपि स्पष्टं भवति यत् संघस्य कृते ‘हिन्दू’ शब्दः न केवलं काचित् उपासना पद्धतिः, अपितु व्यापकः सांस्कृतिकराष्ट्रियपरिचयः अस्ति, यः ‘वसुधैव कुटुम्बकम्’ इत्यस्य तत्त्वं आत्मसात् करोति। शिक्षा, सेवा, समाजसुधारक्षेत्रेषु संघस्य योगदानं विस्तरेण विवृत्तम् अस्ति। डॉ. सदानन्द दामोदर सप्रे स्वलेखे तर्कपूर्णेन प्रकारेण ताः भ्रान्तयः निवारयति यासु संघः कस्यचित् जातिविशेषस्य वर्गस्य वा संस्था इति मन्यते। निखिलेश माहेश्वरी लेखे विद्या भारती माध्यमेन मैकालेयशिक्षापद्धतेः विकल्परूपेण भारतीयमूल्याधारितशिक्षायाः सफलप्रयोगः दर्शितः अस्ति। ‘पञ्च परिवर्तन’ इत्यस्य संघसंकल्पनायाः प्रत्येकसंकल्पः अपि अत्र विस्तारतः विवृतः अस्ति।
अन्ते ‘अक्सर पूछे जाने वाले प्रश्न’ इति विभागः समाविष्टः अस्ति, यः संघविषये स्पष्टबोधं निर्माति। अन्येषां पठनीयग्रन्थानां सूची अपि दत्ता अस्ति, येन पाठकाः अधिकं ज्ञातुं शक्नुवन्ति। समग्रतया उक्तुं शक्यते यत् डॉ. लोकेन्द्र सिंहादयः विद्वांसः संघसत्तासमाजयोः अन्तर्सम्बन्धानां तथा शताब्दीवर्षस्य चुनौतिनां गम्भीरविश्लेषणं प्रस्तुतवन्तः, येन अयं विशेषाङ्कः ऐतिहासिकप्रपत्ररूपेण प्रतिष्ठितः अभवत्।
विशेषांकः : आरएसएस@100
संपादकः - डॉ. लोकेन्द्र सिंहः
पृष्ठानि- 264
प्रकाशकः- मीडियाविमर्शः
---------------
हिन्दुस्थान समाचार