Enter your Email Address to subscribe to our newsletters

प्रयागराजः, ०१ अप्रैलमासः (हि.स.)। उत्तरप्रदेश-पत्रकार-कल्याण-परिषदा वरिष्ठः पत्रकारः दिनेशकुमार-तिवारी प्रयागराजस्य जनपदाध्यक्षरूपेण नियुक्तः। परिषदः कार्यकारिणी-समित्याः संस्तुत्यानन्तरं नियुक्ति-पत्रं निर्गतम्। तस्य मनोनयनानन्तरं प्रदेश-उपाध्यक्षेन अरुण-सोनकरः तथा सचिवः बलराम-शुक्लः माल्यार्पणं कृत्वा भव्यं स्वागतं कृतवन्तौ।
अस्मिन् अवसरे प्रदेश-उपाध्यक्षः अरुणकुमार-सोनकरः, सचिवः बलराम-शुक्लः, वरिष्ठ-पत्रकाराः दिनेश-मिश्रः, प्रवीण-मिश्रः, कपिल-सिंहः, विमलेश-मिश्रः, सिद्धनाथ-द्विवेदी, जे.पी.-श्रीवास्तवः सहिताः बहवः पत्रकाराः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता