राज्यपालः डेका अद्य कोरबा-बिलासपुर-जनपदयोः भ्रमणं करिष्यति, विविध-कार्यक्रमेषु सहभागं करिष्यति
रायपुरनगरम्, ०१ अप्रैलमासः (हि.स.) – छत्तीसगढ-राज्यस्य राज्यपालः रमेन-डेका अद्य बुधवासरे कोरबा-बिलासपुर-जनपदयोः प्रवासे भविष्यति। निर्धारितकार्यक्रमानुसारं डेका रायपुर-लोकभवनात् मुंगेलीजनदपस्य चंदखुरीविश्रामगृहं प्रति प्रस्थानं करिष्यति। ततः राज्य
राज्यपाल श्री रमेन डेका


रायपुरनगरम्, ०१ अप्रैलमासः (हि.स.) – छत्तीसगढ-राज्यस्य राज्यपालः रमेन-डेका अद्य बुधवासरे कोरबा-बिलासपुर-जनपदयोः प्रवासे भविष्यति।

निर्धारितकार्यक्रमानुसारं डेका रायपुर-लोकभवनात् मुंगेलीजनदपस्य चंदखुरीविश्रामगृहं प्रति प्रस्थानं करिष्यति। ततः राज्यपालः कोरबाजनपदस्य कटघोरा-क्षेत्रे ग्राम-ढपढप बांकीमोंगरां प्रति गमिष्यति। अत्र प्रातः ११ वादने “दिव्य श्री हनुमंत कथा एवं १०८ दिव्यांग एवं निर्धन कन्यानां सामूहिक विवाह” कार्यक्रमे भागं ग्रहीष्यति।

कार्यक्रमस्य पश्चात् राज्यपालः मध्याह्ने १२:३० वादने रतनपुर-(बिलासपुर)-विश्रामगृहं प्रति प्रस्थानं करिष्यति, यत्र १:३० वादने आगमनं निर्धारितम् अस्ति। ततः पुनः २:३० वादने चंदखुरीं प्रति प्रस्थानं भविष्यति। ३:३० वादने चंदखुरीम् आगत्य अल्पविश्रामं करिष्यति तथा सायं ३:४५ वादने रायपुर-लोकभवनं प्रति प्रस्थानं करिष्यति। राज्यपालः सायं ५:०० वादने लोकभवनं रायपुरं प्रति आगमिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता