आईआईटी कानपुर एवं जीएसवी इत्यनयोः सहमतिः, परिवहन क्षेत्रे शोधाय लप्स्यते नूयनः आयामः - प्रो. मणीन्द्रअग्रवालः
कानपुरम्, 01 अप्रैलमासः (हि.स.)। भारतीय-प्रौद्योगिकी-संस्थान-कानपुर तथा गति-शक्ति-विश्वविद्यालय-वडोदरा इत्येतयोः मध्ये शिक्षा-प्रशिक्षण-अनुसन्धान-क्षेत्रेषु सहकार्याय बुधवासरे सहमति-ज्ञापनं हस्ताक्षरितम्। एषा सहमतिः परिवहन-लॉजिस्टिक्स-प्रौद्योगिकीं
एमओयू के दौरान लिया गया छायाचित्र


कानपुरम्, 01 अप्रैलमासः (हि.स.)। भारतीय-प्रौद्योगिकी-संस्थान-कानपुर तथा गति-शक्ति-विश्वविद्यालय-वडोदरा इत्येतयोः मध्ये शिक्षा-प्रशिक्षण-अनुसन्धान-क्षेत्रेषु सहकार्याय बुधवासरे सहमति-ज्ञापनं हस्ताक्षरितम्। एषा सहमतिः परिवहन-लॉजिस्टिक्स-प्रौद्योगिकीं केन्द्रे स्थाप्य कृतः, यस्य उद्देश्यः अस्मिन् क्षेत्रे शोधं कौशल-विकासं च सुदृढीकर्तुम् अस्ति।

अस्यां सहमतौ हस्ताक्षरौ आईआईटी-कानपुरस्य निदेशकः प्रो. मणीन्द्र-अग्रवाल तथा जीएसवी-विश्वविद्यालयस्य कुलपतिः प्रो. मनोज-चौधरी इत्याभ्यां कृतौ।

आईआईटी-कानपुरस्य निदेशकः प्रो. मणीन्द्र-अग्रवालः उक्तवान् यत् एषः सहयोगः परिवहन-लॉजिस्टिक्स-क्षेत्रे उन्नत-शोधं नवाचारं कौशल-विकासं च नूतनां दिशां दास्यति, येन देशे स्वदेशी-प्रौद्योगिकी-विकासः प्रोत्साहितः भविष्यति तथा वैश्विक-स्तरे प्रतिस्पर्धा सुदृढा भविष्यति।

अस्य सहकार्यस्य अन्तर्गतं जीएसवी-विश्वविद्यालयस्य स्नातक-छात्राः आईआईटी-कानपुरे उन्नत-प्रयोगशालासु प्रशिक्षणं व्यावहारिक-अनुभवं च प्राप्तुं अवसरं प्राप्स्यन्ति। सह एव रेल-अनुसन्धानं तथा अन्य-परिवहन-क्षेत्रेषु संयुक्त-अनुसन्धानं प्रोत्साहितं भविष्यति।

रेल-मार्गः, स्थल-मार्गः, वायुमार्गः, समुद्र-परिवहनम् तथा अन्तर्देशीय-जलमार्गाः इत्येषु सर्वेषु क्षेत्रेषु एकीकृत-अनुसन्धान-आलेखन-क्रियाः सञ्चालिताः भविष्यन्ति। कृत्रिम-बुद्धिमत्ता, यन्त्र-अधिगमः, संगणक-दृष्टिः इत्यादीनां आधुनिक-प्रौद्योगिकी-उपयोगेन स्मार्ट-परिवहन-प्रणाल्यः विकसिताः भविष्यन्ति।

तेन उक्तं यत् एषा सहकारिता न केवलं परिवहन-क्षेत्रे स्वदेशी-प्रौद्योगिकी-विकासं वेगं दास्यति, अपि तु यात्रायाः वेगं सुरक्षा विश्वसनीयता च उन्नयिष्यति। एतेन भारते विकसितानां उत्पादानां सेवाः च निर्यातस्य नूतनाः अवसराः अपि सृज्यन्ते।

अतिरिक्ततया संकाय-विनिमय-कार्यक्रमाः छात्राणां विशेष-प्रशिक्षण-व्यवस्थाः च प्रवर्तिष्यन्ते, येन प्रशिक्षणं वैश्विक-मानदण्डान् प्रति उन्नीयते। एषा पहल “प्रधानमन्त्री-गति-शक्ति-मास्टर-प्लान” इत्यस्य दृष्टेः साकारतायाः दिशि महत्त्वपूर्णं पदं मन्यते।

अस्मिन् अवसरः प्रो. तरुण-गुप्ता, प्रो. योगेश-सिंह-चौहानस्तथा प्रो. दीपु-फिलिप इत्यादयः अपि उपस्थिताः आसन्।-------------

हिन्दुस्थान समाचार