गुरुनानकविद्यालये 14 दिनांके सज्जिष्यते वैशाखस्य दीवानम्
रांची, 01अप्रैलमासः (हि.स.)। खालसासजनदिवसस्य बैसाखीपर्वणि चतुर्दशे एप्रिलमासीये श्रीगुरुसिंहसभाया आयोजनेन बैसाखीविशेषदीवानः सज्जीकरिष्यते। अस्य पूर्वं एकादशे एप्रिलमासीये मेनरोडस्थिते गुरुद्वारे अमृतसंचारकार्यक्रमः भविष्यति, यत्र सिखधर्मानुयायि
फाइल फोटो स्कूल


रांची, 01अप्रैलमासः (हि.स.)।

खालसासजनदिवसस्य बैसाखीपर्वणि चतुर्दशे एप्रिलमासीये श्रीगुरुसिंहसभाया आयोजनेन बैसाखीविशेषदीवानः सज्जीकरिष्यते। अस्य पूर्वं एकादशे एप्रिलमासीये मेनरोडस्थिते गुरुद्वारे अमृतसंचारकार्यक्रमः भविष्यति, यत्र सिखधर्मानुयायिनां बालकानां कृते अमृतदीक्षा दास्यते।

महासचिवः गगनदीपसिंहसेठी बुधवासरे अवदत् यत् बैसाखीविशेषदीवानः चतुर्दशे एप्रिलमासे पीपीकम्पाउण्डस्थिते गुरुनानकविद्यालयस्य सभागारे प्रातः दशवादनात् आरभ्य अपराह्णे द्वित्रिंशदधिकद्विवादनपर्यन्तं आयोज्यते।

अस्मिन् अवसरे गुरोः अखंडलङ्गरः अपि भविष्यति।

---------------

हिन्दुस्थान समाचार