Enter your Email Address to subscribe to our newsletters


तुमकुरुः, 01 अप्रैलमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मूः उक्तवती यत् सिद्धगंगा-मठः देशस्य समग्र-विकासे महत्त्वपूर्णं योगदानं कृतवान् अस्ति तथा निर्धन-अनाथ-बालकानां शिक्षां आश्रयं च प्रदाय मानवीय-मूल्यानि सुदृढीकृतवान्।
राष्ट्रपतिः बुधवासरे कर्नाटक-राज्यस्य तुमकुरु-स्थिते सिद्धगंगा-मठस्य वस्तु-प्रदर्शनी-मैदाने आयोजिते श्री-श्री-शिवकुमार-स्वामीजेः ११९-तम-जयन्ती-समारोहे संबोधनं कुर्वन्ती आसीत्। तया उक्तं यत् मठस्य सेवा-परम्परा समग्र-देशस्य कृते आदर्शः अस्ति। सिद्धगंगा-मठं प्रति आगत्य मम अत्यन्तं हर्षः अभवत्। दासोह-शिक्षयोः माध्यमेन मठेन निर्धन-बालकानां जीवने प्रकाशः आनितः। “दया एव धर्मस्य मूलम्” इति सिद्धान्तः मठेन यथार्थतया आचरितः।
तया अपि उक्तं यत् वीरशैव-लिंगायत-मठेषु सिद्धगंगा-मठस्य विशेषं स्थानम् अस्ति तथा निरन्तर-सेवा-कार्यैः एषः अग्रणी संस्थानं भवति।
अस्मिन् अवसरे सिद्धलिंग-स्वामीजी उक्तवान् यत् शिवकुमार-स्वामीजी-जीवनं त्याग-सेवयोः प्रतीकं आसीत्। निर्धनानां बालिकानां च शिक्षादानमेव तस्य जीवनस्य मुख्य-लक्ष्यम् आसीत्। तस्य उपलब्धयः कस्यचित् चमत्कारस्य तुल्याः सन्ति।
अस्मिन् एव प्रसंगे कर्नाटक-राज्यपालः थावर-चन्द-गेहलोत उक्तवान् यत् मानव-कल्याणाय स्वजीवनं समर्पितवन्तः शिवकुमार-स्वामीजी-सेवा अद्वितीया अस्ति। तेन “सबका साथ, सबका विकास” इति सिद्धान्तः स्वजीवने अवतरितः।
केन्द्रीयमन्त्री प्रह्लाद-जोशी उक्तवान् यत् शिवकुमार-स्वामीजी अनाथ-बालकानां कृते पितृसमानः आसीत् तथा मानवतायाः प्रतीकः आसीत्। सः मनुष्यत्वात् महादेवत्वं प्राप्तवान् इति।
राज्यस्य गृहमन्त्री जी-परमेश्वर उक्तवान् यत् सिद्धगंगा-मठः केवलं धार्मिक-स्थानं न, अपि तु शिक्षा-सामाजिक-क्रान्त्योः केन्द्रम् अस्ति। त्रिविध-दासोहस्य माध्यमेन मठः विश्वविख्यातः अभवत्।
कार्यक्रमस्य अन्ते मठ-प्रशासनस्य पक्षात् राष्ट्रपतये बसवन्नस्य प्रतिमा उपहाररूपेण प्रदत्ता तथा सम्मानः कृतः। अस्मिन् अवसरः केन्द्र-राज्य-सर्वकारयोः अनेके मन्त्रिणः गणमान्य-व्यक्तयः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार