Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 01 अप्रैलमासः (हि.स.)।
नैनीताल जनपदस्य धारीविकासखण्डे पहाडपानीग्रामनिवासी कमलेश महतोलिया नाम युवकः राजकीययोजनानां सम्यक् उपयोगेन पुष्पाणाम् आधुनिककृषिमाध्यमेन आत्मनिर्भरत्वस्य प्रेरणीयां दृष्टान्तं प्रदर्शितवान् अस्ति। सः अभियान्त्रिकीविद्यायां डिप्लोमा संपाद्य गुजरात प्रदेशे कार्यरतः आसीत्, परं पश्चात् स्वग्रामं प्रत्यागत्य कृषिक्षेत्रे नवाचारमार्गे प्रवृत्तः।
उद्यानविभागस्य साहाय्येन प्राप्तेन प्रायः चतुर्दशलक्षरूप्यकपरिमितेन ऋणेन सः पूर्वं बंजरभूमिं विकसित्य पुष्पाणां फलानां च उन्नतकृषिं प्रारब्धवान्। प्रारम्भे दश नालीपरिमितभूमेः आरब्धः अस्य प्रयासः अद्य चत्वारिंशन्नालीपर्यन्तं विस्तृतः अस्ति, यत्र लिलियमादयः विविधाः पुष्पप्रकाराः सुष्ठुतया विकसिताः सन्ति। तत्सह त्रिंशन्नालीपरिमितक्षेत्रे सेब कीवी स्ट्रॉबेरी इत्यादीनां नगदिफलानाम् अपि उत्पादनं क्रियते।
तस्य उत्पादानां याचना नैनीतालजनपदे अन्येषु जनपदेषु च दिनप्रतिदिनं वर्धते। अस्य प्रयासस्य फलस्वरूपेण अष्टाधिकदशपर्यन्तं स्थानिकजनानां जीविकापि सुलभः अभवत्। सर्वेषां व्ययानां परिशोधनानन्तरं सः प्रतिमासं प्रायः द्विलक्षरूप्यकपरिमितां आयं अर्जयति।
पुष्कर सिंह धामी इत्यस्य नेतृत्वे राज्यसरकारस्य योजनानां साहाय्यं तस्य सफलतायाः मूलकारणम् इति सः स्वयम् उक्तवान्। तेन उक्तं यत् राजकीयसहयोगेन तांत्रिकमार्गदर्शनेन च एतत् सर्वं साध्यं जातम्।
अयं दृष्टान्तः स्पष्टं दर्शयति यत् योजनानां यथोचितोपयोगेन नवाचारेण च युवानः न केवलं स्वयम् आत्मनिर्भराः भवितुं शक्नुवन्ति, अपि तु अन्येषां कृते अपि रोजगारस्य सृजनं कृत्वा क्षेत्रविकासे महत्त्वपूर्णं योगदानं दातुं समर्थाः भवन्ति।
हिन्दुस्थान समाचार