देशे ऊसरवनानां पौधरोपणाय ग्रीन क्रैडिटकार्यक्रमः शुभारब्धः - कीर्ति वर्धन सिंहः
नव दिल्ली, 01 अप्रैलमासः (हि.स.)। केन्द्रीय-वन-पर्यावरण-राज्यमन्त्री कीर्ति-वर्धन-सिंह अवदत् यत् देशे बंजर-वनानां पुनर्वनीकरणे जन-सार्वजनिक-क्षेत्रस्य तथा निजी-क्षेत्रस्य संस्थानां सक्रिय-संयोजनार्थं “ग्रीन-क्रेडिट-कार्यक्रमः” आरब्धः अस्ति। तेन उ
इंदु गोस्वामी।


नव दिल्ली, 01 अप्रैलमासः (हि.स.)।

केन्द्रीय-वन-पर्यावरण-राज्यमन्त्री कीर्ति-वर्धन-सिंह अवदत् यत् देशे बंजर-वनानां पुनर्वनीकरणे जन-सार्वजनिक-क्षेत्रस्य तथा निजी-क्षेत्रस्य संस्थानां सक्रिय-संयोजनार्थं “ग्रीन-क्रेडिट-कार्यक्रमः” आरब्धः अस्ति। तेन उक्तं यत् अस्य कार्यक्रमस्य अन्तर्गतं यानि बंजर-वन-भूमयः आवृताः भविष्यन्ति, तासां चयनं राज्य-सरकारस्य वन-विभागेन स्थानीय-परिस्थितीनां अनुसारं क्रियते। एषा सूचना तेन राज्यसभा-सदस्या इन्दु-बाला-गोस्वामिनी प्रति सदसि प्रदत्ता।

तेन अवगतं कृतं यत् अभ्यर्थिभिः बंजर-वन-क्षेत्रेषु कृतस्य पौधरोपणस्य हरित-विकासस्य च प्रयत्नानां पञ्च-वर्षाणि अनन्तरं “ग्रीन-क्रेडिट” इति लाभस्य दावा कर्तुं शक्यते। ग्रीन-क्रेडिट-लाभार्थं तस्मिन् क्षेत्रे वन-आवरणं न्यूनातिन्यूनं चत्वारिंशत्-प्रतिशतपर्यन्तं भवेत् तथा क्षेत्रं हरित-वृक्षैः सम्यक् आच्छन्नं भवेत्।

मन्त्री उक्तवान् यत् ग्रीन-क्रेडिट-कार्यक्रमस्य अन्तर्गतं कृतस्य पौधरोपणस्य समुचित-विकासाय पञ्च-वर्ष-परिमितिः निर्धारिताऽस्ति, येन तत्र सुदृढा हरित-परत् विकसितुं शक्यते।

अस्य कार्यक्रमस्य मुख्योद्देश्यं बंजर-वनानां पुनर्जीवनं कृत्वा जैव-विविधतायाः वृद्धिः, वन-संसाधनानां पर्यावरणीय-स्वास्थ्यस्य तथा उत्पादन-क्षमतायाः संवर्धनं च अस्ति।

तेन अपि उक्तं यत् अस्य कार्यक्रमस्य प्रशासनार्थं देहरादून-स्थितम् “इण्डियन-काउन्सिल-ऑफ-फॉरेस्ट्री-रिसर्च-एण्ड-एजुकेशन” (ICFRE) इति संस्थानं प्रशासकत्वेन नियुक्तम् अस्ति।

हिन्दुस्थान समाचार