उपराज्यपाल सिन्हा पञ्च निरीक्षकान् उप पुलिस-अधीक्षकस्य पदे उन्नतं कर्तुम् आदिष्टवान्
जम्मूः, 01 अप्रैलमासः (हि.स.)। जम्मूकश्मीरप्रदेशस्य उपराज्यपालः मनोजसिन्हा अद्य पञ्च निरीक्षकान् मन्त्रालनीयवर्गीयान् तत्क्षणप्रभावेन पुलिसउपाधीक्षक मन्त्रालनीयपदे पदोन्नतिं कर्तुं आदेशं दत्तवान्। सरकारीआदेशसंख्या १८७ गृह २०२६ अनुसारं निरीक्षकाण
उपराज्यपाल सिन्हा पञ्च निरीक्षकान् उप पुलिस-अधीक्षकस्य  पदे उन्नतं कर्तुम् आदिष्टवान्


जम्मूः, 01 अप्रैलमासः (हि.स.)।

जम्मूकश्मीरप्रदेशस्य उपराज्यपालः मनोजसिन्हा अद्य पञ्च निरीक्षकान् मन्त्रालनीयवर्गीयान् तत्क्षणप्रभावेन पुलिसउपाधीक्षक मन्त्रालनीयपदे पदोन्नतिं कर्तुं आदेशं दत्तवान्।

सरकारीआदेशसंख्या १८७ गृह २०२६ अनुसारं निरीक्षकाणां मन्त्रालनीयवर्गस्य वेतनमानस्य अन्तर्गतं पुलिसउपाधीक्षक मन्त्रालनीयपदे तत्क्षणप्रभावेन पदोन्नतिः अनुमोदिता अस्ति।

पदोन्नताः अधिकारिणः एते सन्ति फिदा हुसैन शेख फारूक अहमद नाइकू मोहम्मद फारूक मीर मंजूर हुसैन तथा अब्दुल राशिद मीर।

आदेशे उक्तं यत् एताः पदोन्नतयः वेतनस्तर ८ मध्ये कृताः सन्ति तथा च कस्यापि सक्षम न्यायालये प्रलम्बितानां रिटयाचिकानां परिणामाधीनाः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार