मध्यप्रदेशस्य मुख्यमन्त्री अद्य राज्य-स्तरीय-प्रवेशोत्सव-कार्यक्रमम् २०२६ “स्कूल चलें हम” इत्यस्य शुभारम्भं करिष्यति
भोपालनगरम्, ०१ अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य बुधवासरे भोपालस्य टीटी-नगर-स्थिते आदर्श-उच्चतर-माध्यमिक-विद्यालये “स्कूल चलें हम” इत्यस्य अभियानस्य अन्तर्गतं राज्य-स्तरीय-प्रवेशोत्सव-कार्यक्रमस्य २०२६ शुभारम्भं करिष
सीएम मोहन यादव


भोपालनगरम्, ०१ अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य बुधवासरे भोपालस्य टीटी-नगर-स्थिते आदर्श-उच्चतर-माध्यमिक-विद्यालये “स्कूल चलें हम” इत्यस्य अभियानस्य अन्तर्गतं राज्य-स्तरीय-प्रवेशोत्सव-कार्यक्रमस्य २०२६ शुभारम्भं करिष्यति। कार्यक्रमे सः विद्यार्थिभ्यः निःशुल्क-द्विचक्रिकाणां वितरणम् अपि करिष्यति।

जनसम्पर्क-अधिकारी अखिल-परस्ते उक्तवान् यत् राज्य-शासनेन विद्यार्थिभ्यः गुणवत्तापूर्ण-शिक्षां आवश्यक-संसाधनानि च प्रदातुं विविधाः सुविधाः प्रदीयन्ते। अस्याः योजनायाः अन्तर्गतं मेधावी-विद्यार्थिभ्यः लैपटॉप-सहायता दीयते। स्कूटी-योजना तथा द्विचक्रिका-वितरण-योजनया विद्यार्थिभ्यः प्रोत्साहनं प्रदीयते।

तेन उक्तं यत् डिजिटल-शिक्षायाः प्रवर्धनार्थं माध्यमिक-विद्यालयेषु तथा उच्च-विद्यालयेषु/उच्चतर-माध्यमिक-विद्यालयेषु स्मार्ट-क्लास-सुविधा उपलब्धा क्रियते। अतिरिक्तरूपेण शिक्षां परित्यक्त-विद्यार्थिनां (ड्रॉपआउट्) परिचयः तथा तेषां पुनः नामांकनार्थं ट्रैकिङ्ग-प्रणाली अपि सञ्चाल्यते, येन अधिकाधिकाः बालकाः शिक्षायाः मुख्यधारया सह संयोक्तुं शक्यन्ते।

राज्य-शासनेन अस्मिन् वर्षे उच्च-विद्यालय-तथा-उच्चतर-माध्यमिक-स्तरे शत-प्रतिशत-नामांकनं सुनिश्चेतुं संकल्पः कृतः। अयं कार्यक्रमः प्रदेशे शिक्षायाः प्रसारस्य, गुणवत्तापूर्ण-शिक्षायाः उपलब्धेः तथा विद्यार्थिनः मुख्यधारया संयोजनस्य दिशि महत्त्वपूर्णः प्रयत्नः सिद्धः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता