Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०१ अप्रैलमासः (हि.स.) - भारत-सर्वकारस्य ‘चैलेंज-आधारित-डेस्टिनेशन-विकास-उपयोजना’ स्वदेश-दर्शनम् 2.0 इत्यस्य मार्गदर्शिकानुसारं धार-जनपदस्य माण्डू-क्षेत्रस्य स्वीकृतिः प्राप्ता। राज्य-शासनेन तदर्थं ‘डेस्टिनेशन-मैनेजमेंट-समितेः’ गठनं कृतम्। अस्मिन् विषये बुधवासरे सामान्य-प्रशासन-विभागेन आदेशः निर्गतः।
आदेशानुसारं समितौ धार-जनपदस्य जनपदाधिकारी अध्यक्षत्वेन नियुक्तः। अन्ये सदस्याः - आरक्षक-अधीक्षकः धार-जनपदः, मुख्य-नगरपालिका-अधिकारी माण्डू (यदि प्रस्तावितं क्षेत्रं नगरीयं भवति), मुख्य-कार्यपालन-अधिकारी जनपद-पंचायतः धारः (यदि क्षेत्रं ग्रामीणं भवति), लोक-निर्माण-विभागस्य कार्यपालन-यंत्री, जनसम्पर्क-विभागस्य सहायक-निदेशकः, जनपद-उद्योग-केन्द्रस्य महाप्रबन्धकः, शासकीय-तकनीकी-प्रशिक्षण-संस्थानस्य प्राचार्यः, जनपदाधिकारिणा नामाङ्किताः पर्यटन-विभागस्य प्रतिनिधयः, तथा पर्यटन-उद्योगस्य द्वौ प्रतिनिधी च।
अध्यक्षः आवश्यकतानुसारम् अन्य-विभागानां संस्थानां वा प्रतिनिधीन् विशेष-आमन्त्रितरूपेण आमन्त्रयितुं शक्नोति। जनपदाधिकारी तथा समिति-अध्यक्षः पर्यटन-उद्योगस्य द्वौ प्रतिनिधी, पर्यटन-संबद्ध-विभागस्य प्रतिनिधिं च नाम निर्दिश्य तस्य सूचना पर्यटन-विभागाय तथा मध्यप्रदेश-पर्यटन-संघाय प्रेषयिष्यति। विकास-कार्याणां पर्यवेक्षणार्थं स्वाधीन-अधिकारी कश्चित् सदस्य-सचिवरूपेण अधिकृतः भविष्यति।
एवं गठिता समितिः पर्यटन-मन्त्रालयस्य स्वदेश-दर्शनं 2.0 योजनायाः निर्धारित-मार्गदर्शिकानुसारं स्वकर्तव्यं निर्वहिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता