Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०१ अप्रैलमासः (हि.स.)। मध्यप्रदेशे अद्य १ अप्रैल-मासात् नूतनं शिक्षण-सत्रं वर्षं २०२६-२७ आरभ्यते। विद्यालय-शिक्षा-विभागेन एतत् “स्कूल चलें हम” अभियान-रूपेण आयोज्यते। एतत् अभियानं ४ अप्रैल-पर्यन्तं भविष्यति। अभियानान्तर्गतं १ तः ४ अप्रैलमास-पर्यन्तं प्रतिदिनं विद्यालयेषु विविधाः कार्यक्रमाः आयोजयिष्यन्ते।
विद्यालय-शिक्षा-विभागेन निर्गत-निर्देशानुसारं “स्कूल चलें हम” अभियाने प्रदेशस्य शासकीय-विद्यालयेषु विद्यार्थिनां नामांकनस्य विषये विशेष-ध्यानं दीयते। प्रदेशे प्रायः ९२ सहस्राधिकाः शासकीय-विद्यालयाः सन्ति। एतेषु प्राथमिक-माध्यमिक-उच्च-तथा-उच्चतर-माध्यमिक-विद्यालयाः सन्ति। एतेषु विद्यालयेषु प्रायः ८५ लक्ष-विद्यार्थिनः अध्ययनरताः सन्ति।
राज्य-स्तरीय-आयोजनम्
“स्कूल चलें हम” अभियानस्य राज्य-स्तरीय-कार्यक्रमः भोपालस्य टीटी-नगर-स्थिते आदर्श-उच्चतर-माध्यमिक-विद्यालये मुख्यमन्त्रिणः डॉ.मोहन-यादवस्य उपस्थितौ भविष्यति। कार्यक्रमे मुख्यमन्त्री डॉ.यादवः विद्यार्थिभ्यः निःशुल्क-द्विचक्रिकाणां वितरणम् अपि करिष्यति।
जनपद-शाला-स्तरीय-प्रवेशोत्सव-कार्यक्रमाः
प्रदेशे जनपदानां प्रभारी-मन्त्रिणः जनपद-स्तरीय-प्रवेशोत्सव-कार्यक्रमेषु सहभागं करिष्यन्ति। एते कार्यक्रमाः चयनित-विद्यालयेषु आयोज्यन्ते। कार्यक्रमेषु सांसदाः, विधायकाः अन्ये च जन-प्रतिनिधयः सहभागिनः भविष्यन्ति। उपस्थितेभ्यः छात्र-छात्राभ्यः निःशुल्क-पाठ्य-पुस्तकानि वितरितानि भविष्यन्ति। विद्यालय-शिक्षा-विभागेन एषा व्यवस्था कृता यत् नूतन-शैक्षणिक-सत्रस्य आरम्भे एव विद्यार्थिभ्यः पाठ्य-पुस्तकानि लभेरन्। ग्रामेषु विद्यालयात् बहिः स्थितानां चिन्हित-बालकानां विद्यालये नामांकनं क्रियते। बालकानां अभिभावकानां शाला-स्तरे स्वागतं क्रियते। कक्षा १ तः ८ पर्यन्तं सर्वासु शालासु १ अप्रैल-मासे बालसभा आयोज्यते। अस्मिन् दिने शालासु विशेष-भोजनस्य व्यवस्था अपि कृता अस्ति।
“भविष्य से भेंट” कार्यक्रमः
अभियानस्य द्वितीय-दिने शालासु “भविष्य से भेंट” कार्यक्रमः भविष्यति। अस्मिन् कार्यक्रमे समाजस्य विभिन्न-क्षेत्रेषु प्रसिद्धाः प्रबुद्धाः सम्मानिताश्च व्यक्तयः प्रेरक-रूपेण विद्यार्थिभिः सह मिलितुं आमन्त्रिताः भविष्यन्ति। तस्मिन्नेव दिने स्थानीय-स्तरे विशिष्ट-उपलब्धिं प्राप्तवन्तः क्रीडकाः, साहित्यकाराः, कलाकाराः, मीडिया-सञ्चार-सम्बद्धाः, आरक्षक-अधिकारिणः, राज्य-शासन-अधिकारिणः च आमन्त्रिताः भविष्यन्ति। आमन्त्रिताः अतिथयः विद्यार्थिभ्यः अध्ययनस्य महत्त्वं प्रेरणादायी-कथाश्च कथयिष्यन्ति। सामाजिक-संस्थाः आमन्त्रिताश्च व्यक्तयः स्वेच्छया विद्यार्थिभ्यः शाला-उपयोगी-वस्तूनि दातुं शक्नुवन्ति। जनपद-समाहर्त्रे अपि निर्देशाः दत्ताः यत् प्रथम-द्वितीय-श्रेणी-अधिकारिणः कस्यचित् विद्यालयस्य एकस्मिन् कालखण्डे गत्वा बालकैः सह संवादं कुर्वन्तु।
सांस्कृतिक-तथा-क्रीडा-गतिविधयः
अभियानान्तर्गतं ३ अप्रैल-मासे शाला-स्तरे अभिभावकैः सह सांस्कृतिक-तथा-क्रीडा-गतिविधयः आयोजयिष्यन्ते। अस्य उद्देश्यम् अभिभावकान् विद्यालयेन सह संयोक्तुम् अस्ति। अस्मिन् दिने उपस्थितेभ्यः अभिभावकेभ्यः शैक्षणिक-कर्मचारिणः राज्य-सर्वकारस्य विद्यालय-शिक्षा-सम्बद्ध-योजनानां विषये सूचनाः दास्यन्ति। गत-शैक्षणिक-सत्रे येषां विद्यार्थिनां ८५ प्रतिशताधिक-उपस्थितिः आसीत्, तेषां अभिभावकाः सभायां सम्मानिताः भविष्यन्ति।
“हार के आगे जीत” कार्यक्रमः
अभियानान्तर्गतं ४ अप्रैल-मासे ये छात्राः कक्षोन्नतिं प्राप्तुम् असफलाः अभवन्, तेषां चिह्नाङ्कनं क्रियते। तेषां अभिभावकान् बालकानां अग्रिम-अध्ययनार्थं प्रेरणा दीयते। तेभ्यः सूच्यते यत् असफलतायाः अनन्तरम् अपि निरन्तर-प्रयत्नेन उत्तमं भविष्यं निर्मातुं शक्यते। अस्मिन्नेव दिने शाला-प्रबन्धन-तथा-विकास-समितेः सभाः अपि भविष्यन्ति। अस्यां सभायां नूतन-शैक्षणिक-सत्रे ये बालकाः नामांकनात् वञ्चिताः, तेषां विषये विशेष-चर्चा क्रियते। समिति-सदस्याः शत-प्रतिशत-नामांकनस्य प्रयत्नं करिष्यन्ति तथा वार्षिक-कार्य-योजनां निर्माय तस्याः क्रियान्वयनस्य विषये चर्चां करिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता