Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०१ अप्रैलमासः (हि.स.) – उत्तरप्रदेशस्य वाराणसी-नगरे ३–५ अप्रैलमासे त्रिदिवसीयः महोत्सवः आयोज्यते, यस्मिन् भारतस्य स्वाभिमानं, विकासगाथा च प्रस्तुता भविष्यति। मध्यप्रदेश-उत्तरप्रदेश-सर्वकारयोः संयुक्ततया महानाट्यं ‘सम्राट् विक्रमादित्य’ ऐतिहासिकरूपेण मंचितं भविष्यति।
कार्यक्रमस्य शुभारम्भम् उत्तरप्रदेश-मुख्यमन्त्री योगी-आदित्यनाथः तथा केंद्रीय-संस्कृति-पर्यटन-मन्त्री गजेंद्रसिंह-शेखावतः इत्यनयोः उपस्थितौ भविष्यति। नाटकं सम्राट्-विक्रमादित्यस्य जीवनं, साहसं, न्यायप्रियतां च दर्शयति। मंचनं १:४५ होरापर्यन्तं चलति, यस्मिन् १७५ अतिरिक्त-कलाकाराः अश्व-रथ-ऊष्ट्र-पालकी-इत्यादिनां प्रयोगेण दृश्यव्यवस्थां कृत्वा दर्शकान् मोहयिष्यन्ति।
महानाट्ये ‘सिंहासन-बत्तीसी’, ‘बेताल-पच्चीसी’ च प्रसंगाः, भविष्यपुराणस्य गम्भीरसन्दर्भाः च दर्श्यन्ते। सम्राट्-विक्रमादित्यस्य दरबारस्य नवरत्नाः- महाकविकालिदासः, खगोलशास्त्री वराहमिहिरः अपि प्रभावशालीं भूमिकां प्रदर्शयिष्यन्ति।
अस्य आयोजनस्य माध्यमेन भारतीय-इतिहासस्य गौरवशाली-पृष्ठानि, विक्रम-संवत्-वैज्ञानिकतां च जनमानसस्य समक्षं जीवन्तं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता