Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०१ अप्रैलमासः (हि.स.) – मध्यप्रदेशस्य खाद्य-नागरिक-आपूर्ति-मन्त्री गोविन्दसिंह-राजपूतः उक्तवान् यत् प्रत्येकं गृहे शिक्षायाः दीपः ज्वालयितव्यः तथा कश्चन अपि बालकः शिक्षायाः वञ्चितः न भवेत्। शिक्षा एव प्रकाशः अस्ति, या अज्ञानस्य अन्धकारं निवारयति।
मन्त्री राजपूतः बुधवासरे सागर-स्थिते सांदीपनी-विद्यालये (महारानी-लक्ष्मीबाई-कन्या-विद्यालये) आयोजितं प्रवेश-उत्सव-कार्यक्रमं सम्बोधयन् एतत् उक्तवान्। तेन उक्तं यत् प्रवेश-उत्सवः केवलं कार्यक्रमः न, अपितु शिक्षां प्रति जागरूकतायाः, नूतन-स्वप्नानाम् आरम्भस्य उज्ज्वल-भविष्यस्य च प्रथमः चरणः अस्ति। यदा कश्चन बालकः प्रथमवारं विद्यालयस्य द्वारं प्रविशति, तदा सः केवलं विद्यालये प्रवेशं न करोति, अपि तु ज्ञान-संस्कार-आत्मनिर्भरता-विश्वे प्रवेशं करोति।
मन्त्रिणा राजपूतेन उक्तं यत् प्रवेश-उत्सवस्य उद्देश्यं प्रत्येकं बालकः विद्यालयेन सह सम्बध्येत, शिक्षां प्राप्नुयात्, स्वजीवनं सफलं च कुर्यात् इति सुनिश्चितीकरणम् अस्ति। अद्यापि केचन बालकाः विभिन्न-कारणैः शिक्षायाः दूरं तिष्ठन्ति। अतः सर्वेषां दायित्वं यत् प्रत्येकं गृहस्य प्रत्येकं बालकः विद्यालयं गच्छेत् स्वप्नानि च साकारयेत्।
मन्त्री राजपूतः अभिभावकान् अपि आह्वयत् यत् ते स्व-बालकानां शिक्षां प्राथमिकतया स्वीकरोतु, यतः अद्यतन-शिक्षा एव श्वः सशक्त-भारतस्य निर्माणं करिष्यति। तेन उक्तं यत् मुख्यमन्त्रिणः डॉ.मोहन-यादवस्य नेतृत्वे राज्य-शासनं विद्यार्थिभ्यः निःशुल्क-पाठ्य-पुस्तकानि, द्विचक्रिका, स्कूटी, लैपटॉप-इत्यादयः छात्रवृत्तयः च प्रददाति। अस्मिन् अवसरे मन्त्रिणा राजपूतेन मेधावी-छात्राः छात्र्यः च प्रमाण-पत्रैः पदकैः च सम्मानिताः। कार्यक्रमे स्थानीय-जनप्रतिनिधयः अधिकारिणः शिक्षकाः छात्र्यः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता