उत्कल दिवस: राज्यपालो मुख्यमंत्री च अदत्तां शुभकामनाः
भुवनेश्वरम्, 01 अप्रैलमासः (हि.स.)।प्रतिवर्षं प्रथमएप्रिलमासे उत्सवेन मन्यमानस्य उत्कलदिवसस्य अवसरे राज्यपालः हरिबाबुकम्भमपाटी राज्यवासिभ्यः हार्दिकाः शुभाशयाः प्रेषितवान् तथा तान् नेतॄन् स्मृतवान् येषां दूरदर्शितया प्रयासैः च पृथक् ओडिशाराज्यस्य न
हरिबाबू कंभमपटी


भुवनेश्वरम्, 01 अप्रैलमासः (हि.स.)।प्रतिवर्षं प्रथमएप्रिलमासे उत्सवेन मन्यमानस्य उत्कलदिवसस्य अवसरे राज्यपालः हरिबाबुकम्भमपाटी राज्यवासिभ्यः हार्दिकाः शुभाशयाः प्रेषितवान् तथा तान् नेतॄन् स्मृतवान् येषां दूरदर्शितया प्रयासैः च पृथक् ओडिशाराज्यस्य निर्माणं सम्भवम् अभवत्।

राज्यपालेन सामाजिकमाध्यमे लिखिते सन्देशे ओडिशायाः भाषा साहित्यसंस्कृतिषु एतेषां नेतॄणां योगदानं प्रकाश्य सर्वान् राज्यस्य अस्मितां गौरवं च सुदृढीकर्तुं आह्वानं कृतम्। राज्यपालः लिखितवान् यद् “राज्यस्य सर्वेभ्यः प्रियभ्रातृभगिनीभ्यः ओडिशादिवसस्य हार्दिकाः शुभाशयाः। अहं तासां महानात्मनां प्रति गाढं सम्मानं श्रद्धाञ्जलिं च अर्पयामि, येभ्यः पृथकोडिशानिर्माणे अतुलनीयं योगदानं दत्तम्, येन अस्माकं भाषा साहित्यसंस्कृतयः मान्यतां सम्मानं च प्राप्तवन्तः। आगच्छामः वयं सर्वे मिलित्वा ओडिशायाः अस्मितां गौरवं च अधिकं सुदृढं कर्तुं संकल्पं कुर्मः।”

मुख्यमन्त्री मोहनचरणमाझी अपि राज्यवासिभ्यः हार्दिकाः अभिनन्दनाः शुभाशयाः च प्रेषितवान्। सः अवदत् यद् “भाषाया आधारे निर्मितप्रथमराज्यरूपेण ओडिशा विश्वमञ्चे स्वविशिष्टां पहचानं निर्मितवती। अस्मिन् अवसरि अहं तान् महान् पुत्रान् प्रति श्रद्धाञ्जलिं अर्पयामि येषां त्यागेन दूरदर्शितया च पृथकोडिशा सम्भवा अभवत्।”

मुख्यमन्त्री ओडियाअस्मितायाः संस्कृतेः संरक्षणे स्वसरकारस्य प्रतिबद्धतां पुनरुक्तवान्। सः अवदत् यद् “वयं प्रत्येकस्य ओडियजनस्य स्वप्नानां आकाङ्क्षाणां च पूर्तये निरन्तरं कार्यं कुर्मः। अस्माकं एकमेव लक्ष्यं ओडिशां राष्ट्रस्य अग्रणीं राज्यं कर्तुम् अस्ति। अस्मिन् पुण्यदिने आगच्छामः वयं सर्वे मिलित्वा ‘समृद्धओडिशा’ निर्मातुं दृढसंकल्पं कुर्मः।”

---------------

हिन्दुस्थान समाचार