डिब्रूगढनगरे मनोहरि-चाय-उद्याने प्रधानमन्त्री मोदी चाय-पत्राणि सङ्गृहीतवान्
डिब्रूगढनगरम् (असमप्रदेशः), ०१ अप्रैलमासः (हि.स.) – प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे प्रातःकाले डिब्रूगढ़स्य मनोहरि-चाय-उद्यानम् अवलोकितवान्, यत्र तेन चाय-पत्राणि सङ्गृह्य असम-प्रदेशस्य चाय-उद्योगस्य महत्त्वं प्रकाशितम्।स्वप्रवासे प्रधानमन्त्री
डिब्रूगढ़ के मनोहारी चाय बागान में प्रधानमंत्री नरेन्द्र मोदी चाय की पत्तियां तोड़ते हुए।


Prime Minister Narendra Modi in Assam's Tea Garden.


Prime Minister Narendra Modi in Assam's Tea Garden.


Prime Minister Narendra Modi in Assam's Tea Garden.


डिब्रूगढनगरम् (असमप्रदेशः), ०१ अप्रैलमासः (हि.स.) – प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे प्रातःकाले डिब्रूगढ़स्य मनोहरि-चाय-उद्यानम् अवलोकितवान्, यत्र तेन चाय-पत्राणि सङ्गृह्य असम-प्रदेशस्य चाय-उद्योगस्य महत्त्वं प्रकाशितम्।स्वप्रवासे प्रधानमन्त्री मोदी चाय-उद्यानस्य महिला-श्रमिकाभिः अन्यैः च कर्मकरैः सह संवादं अपि कृतवान्। अस्मिन् संवादे सः कर्मकराणां योगदानस्य प्रशंसां कृत्वा तान् उत्साहितवान्। एषः संवादः क्षेत्रे चाय-उद्यान-श्रमिकाणां कल्याणं, सशक्तीकरणं च प्रति शासनस्य दृढसंकल्पं दर्शयति।

प्रधानमन्त्री मोदी तेषां कर्मकराणां बालकानां शिक्षां, तेषां वेतनम्, तथा आयुष्मान्-पत्रकस्य उपलभ्यता इत्यादिषु विषयेषु अपि विवरणं गृहीतम्।

उल्लेखनीयम् यत् निर्वाचन-प्रचाराय भागं गृहीतस्य उद्देश्येन प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे रात्रौ डिब्रूगढ़म् आगत्य ८:४० वादने मोहनबाड़ी-वायुपत्तनम् आगतवान्। ततः विशाल-सम्मर्देन सह मोहनबाड़ी-विमानपत्तनात् मनोहरि-रिज़ॉर्ट प्रति प्रस्थानम् कृतवान्। रात्रिः प्रधानमन्त्री मनोहरि-रिजॉर्ट-इत्यत्र यापितवान्।

प्रधानमन्त्री मोदी धेमाजी तथा लखीमपुर-जनपदस्य अभ्यर्थिनां पक्षे निर्वाचन-प्रचारं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता