राष्ट्रपतिः उपराष्ट्रपतिश्च जनगणनायाः-2027 स्व-गणनाभियाने गृहीतवन्तौ भागम्
नव दिल्ली, 01 अप्रैलमासः (हि.स.)। द्रौपदी मुर्मु तथा सी.पी. राधाकृष्णन बुधवासरे जनगणनायाः–२०२७ स्वगणनाभियाने सहभागी भूत्वा स्वस्वपरिवारस्य विवरणं आधिकारिके ऑनलाइनपटले प्रविष्टवन्तौ। राष्ट्रपतिः राष्ट्रपति भवन मध्ये, उपराष्ट्रपतिः तु उपराष्ट्रपति
राष्ट्रपति द्रौपदी मुर्मु बुधवार को राष्ट्रपति भवन में जनगणना-2027 के स्व-गणना अभियान में भाग लेते हुए


नव दिल्ली, 01 अप्रैलमासः (हि.स.)।

द्रौपदी मुर्मु तथा सी.पी. राधाकृष्णन बुधवासरे जनगणनायाः–२०२७ स्वगणनाभियाने सहभागी भूत्वा स्वस्वपरिवारस्य विवरणं आधिकारिके ऑनलाइनपटले प्रविष्टवन्तौ। राष्ट्रपतिः राष्ट्रपति भवन मध्ये, उपराष्ट्रपतिः तु उपराष्ट्रपति भवन मध्ये एतां प्रक्रियाम् सम्पन्नवान्। एषा प्रथमवारं भवति यत् देशस्य जनगणना पूर्णतया डिजिटलरूपेण आयोजिता अस्ति तथा च स्वगणनायाः विकल्पः अपि प्रदत्तः अस्ति।

राष्ट्रपतिः द्रौपदीमुर्मुः राष्ट्रपतिभवने आधिकारिकपटले स्वकीयपरिवारसम्बद्धां सूचनां निबद्धवती। अस्मिन् अवसरे गोविंद मोहन, मृत्युंजय कुमार नारायणः अन्ये च वरिष्ठाधिकारिणः उपस्थिताः आसन्।

अन्यत्र उपराष्ट्रपतिः सी.पी. राधाकृष्णन महोदयः उपराष्ट्रपतिभवने ऑनलाइनस्वगणनापत्रं पूरितवान्, यत्र मृत्युंजय कुमार नारायणोऽपि उपस्थितः आसीत्। स्वसामाजिकमाध्यमसन्देशे सः नागरिकान् आह्वयत् यत् ते स्वस्वराज्येषु केन्द्रशासितप्रदेशेषु च निर्दिष्टकाले आधिकारिकपलटस्य माध्यमेन स्वपरिवारस्य विवरणं स्वयमेव निबध्नीयुः। तेन उक्तं यत् एषा जनगणना ‘डिजिटल इंडिया’ इति अभियानस्य अनुरूपा अस्ति, यत्र उन्नतडिजिटलप्रौद्योगिकीप्रयोगेन दत्तसंग्रहणं प्रसारणं च अधिकगुणवत्तायुक्तं शीघ्रं समयबद्धं च क्रियते।

विश्वस्य सर्वातिविशालजनगणना इति प्रसिद्धा जनगणना–२०२७ अद्यप्रभृति आरब्धा। अस्याः प्रथमचरणे एप्रिलमासस्य १ तः १५ दिनाङ्कपर्यन्तं अंडमान और निकोबार द्वीप समूह, एनडीएमसी, दिल्लीछावनीबोर्ड, गोवा, कर्नाटक, लक्षद्वीप, मिजोरम, ओडिशा तथा सिक्किम इत्येषु प्रदेशेषु स्वगणनाप्रक्रिया सञ्चाल्यते।

अनन्तरं द्वितीयचरणे एप्रिलमासस्य १६ दिनाङ्कात् मेमासस्य १५ दिनाङ्कपर्यन्तं गृहनिर्देशनम् आवासजनगणना च क्रियिष्यते, यस्मिन् गृहं गृहं गत्वा विवरणसंग्रहणं भविष्यति।

सरकारेण उक्तं यत् डिजिटलजनगणनया प्रक्रिया अधिकपारदर्शिनी शीघ्रा सटीकं च भविष्यति, येन दत्तव्यवस्थापनविश्लेषणयोः अपि गुणोन्नतिः भविष्यति।

उल्लेखनीयं यत् भारतदेशे जनगणनाकार्यं ‘जनगणना अधिनियमस्य, १९४८’ तथा ‘जनगणना नियमस्य १९९०’ च (समयानुसारं संशोधिताः) अधीनं सम्पद्यते। भारतस्य पूर्वा जनगणना २०११ वर्षे सम्पन्ना आसीत्।

जनगणना–२०२७ भारतस्य षोडशी जनगणना तथा स्वातन्त्र्योत्तरकालस्य अष्टमी जनगणना अस्ति, या देशस्य जनसांख्यिकसामाजिकआर्थिकनीतिनिर्माणे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।

---------------

हिन्दुस्थान समाचार