Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 01 अप्रैलमासः (हि.स.)।ओडिशा-स्थापना-दिवसस्य (उत्कल-दिवसस्य) अवसरस्य उपलक्ष्ये राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः सी. पी. राधाकृष्णन तथा प्रधानमन्त्री नरेन्द्र मोदी सह केन्द्रीयमन्त्रिणः अपि राज्यस्य समृद्धां सांस्कृतिक-परम्परां, परम्पराः तथा योगदानं प्रशंसन्तः राज्यवासिनः प्रति शुभाशयाः अर्पितवन्तः।
राष्ट्रपतिः मुर्मु स्वस्य ‘एक्स’ सन्देशे उक्तवती यत् एषः दिवसः ओडिशा-राज्यस्य समृद्ध-सांस्कृतिक-परम्परायाः, शाश्वत-परम्पराणां तथा जनानां अदम्य-साहसस्य प्रतीकः अस्ति। सा अवदत् यत् स्वतन्त्रता-संग्रामे राष्ट्र-निर्माणे च ओडिशा-राज्यस्य योगदानं प्रेरणादायकम् आसीत्। राष्ट्रपतिः भगवान् जगन्नाथं प्रति प्रार्थनां कृत्वा राज्यवासिनां प्रगत्यै समृद्धये च कामनाम् अकरोत्।
उपराष्ट्रपतिः राधाकृष्णन अपि ओडिशा-दिवसस्य शुभाशयान् प्रेषयन् राज्यस्य गौरवशाली-संस्कृतेः अदम्य-भावनायाः च प्रशंसाम् अकरोत्। तेन राज्यस्य निरन्तर-शान्तेः समृद्धेः विकासस्य च कामना कृता।
प्रधानमन्त्री मोदी उत्कल-दिवसे अवदत् यत् ओडिशा सांस्कृतिक-आध्यात्मिक-महत्त्वस्य प्रतीकं वर्तते। तेन ओडिया-संगीतस्य, कलायाः, साहित्यस्य च प्रशंसा कृता तथा उक्तं यत् राज्यस्य जनाः स्वपरिश्रमेण सरलतया च सर्वेषु क्षेत्रेषु उल्लेखनीय-योगदानं दत्तवन्तः।
लोकसभा-अध्यक्षः ओम् बिरला अपि राज्यवासिनः अभिनन्दन् उक्तवान् यत् ओडिशा-राज्यस्य समृद्धा सांस्कृतिक-परम्परा, गौरवशाली-इतिहासः तथा प्राकृतिक-संपदः देशस्य परिचयं अधिकं सुदृढं कुर्वन्ति। तेन राज्यस्य निरन्तर-प्रगतेः आत्मनिर्भरता-प्राप्तेः च कामना कृता।
गृहमन्त्री अमित शाहः उक्तवान् यत् भगवान् जगन्नाथस्य आशीर्वादेन ओडिशा भारतस्य गौरवरूपेण उद्भासते तथा विकसित-भारत-निर्माणे महत्वपूर्णां भूमिकां निर्वहति।
दिल्ली-राज्यस्य मुख्यमन्त्री रेखा गुप्ता अपि ओडिशा-जनान् प्रति शुभाशयाः अर्पयन्ती राज्यस्य सांस्कृतिक-समृद्धेः प्राकृतिक-सौन्दर्यस्य च प्रशंसाम् अकरोत्। तया प्रधानमन्त्री मोदी-मार्गदर्शनेन तथा मुख्यमन्त्री मोहन-चरण-माझी-नेतृत्वेन ओडिशा-राज्यस्य विकासः प्रशंसितः।
मध्यप्रदेशस्य मुख्यमन्त्री मोहन यादवः ओडिशां आध्यात्मिकता-कलासंस्कृतेः पवित्रभूमिं निर्दिश्य राज्यवासिनः अभिनन्दन् समृद्धेः कामनाम् अकरोत्।
राजस्थानस्य मुख्यमन्त्री भजनलाल शर्मा अपि उत्कल-दिवसे शुभाशयाः प्रेषयन् ओडिशा-राज्यस्य उज्ज्वल-भविष्यस्य कामनाम् अकरोत्।
उल्लेखनीयम् अस्ति यत् ओडिशा-दिवसः प्रतिवर्षं अप्रैल-मासस्य प्रथम-दिने (१ अप्रैल) आचर्यते, यदा १९३६ तमे वर्षे ओडिशा पृथक् राज्यरूपेण स्थापितम् आसीत्।
---------------
हिन्दुस्थान समाचार