Enter your Email Address to subscribe to our newsletters

मुंबई, 01 अप्रैलमासः (हि.स)।
भारतीय रिज़र्व बैंक इत्यनेन उद्घोषितं यत् देशस्य वित्तकोषसंस्थासु अद्यपर्यन्तं द्विसहस्ररूप्यकमूल्यवर्गस्य नोटानां ९८.४५ प्रतिशतं पुनरागतम् अस्ति। बुधवासरे केन्द्रीयबैंकेन अपि स्पष्टतया उक्तं यत् द्विसहस्ररूप्यकनोटाः अद्यापि वैधमुद्रारूपेण प्रवर्तन्ते।
आरबीआई इत्यनेन १९ मे २०२३ तमे दिने द्विसहस्ररूप्यकमूल्यवर्गस्य नोटानां प्रचलनात् प्रत्याहारस्य घोषणा कृता आसीत्। तस्याः घोषणायाः समये, अर्थात् १९ मे २०२३ दिने व्यवसायसमाप्तिसमये, प्रचलने विद्यमानानां एतेषां नोटानां कुलमूल्यं ३.५६ लक्षकोटिरूप्यकपरिमितम् आसीत्। तत् मूल्यं ३१ मार्च २०२६ पर्यन्तं ह्रासं प्राप्य केवलं ५,५०१ कोटिरूप्यकपरिमितं जातम्।
एवं भारतीय रिज़र्व बैंक इत्यनेन उक्तं यत् १९ मे २०२३ पर्यन्तं प्रचलने स्थितानां द्विसहस्ररूप्यकनाणकानां मध्ये ९८.४५ प्रतिशतं अद्यपर्यन्तं प्रत्यावर्तितम् अस्ति।
केन्द्रीयवित्तकोषस्य सूचनानुसारं द्विसहस्ररूप्यकनोटानां विनिमयव्यवस्था तस्य १९ निर्गमकार्यालयेषु उपलब्धा अस्ति। एते कार्यालयाः व्यक्तीनां संस्थानां च वित्तकोषेषु निक्षेपणार्थं एतानि नाणकानि स्वीकरोन्ति। अस्य अतिरिक्तं सामान्यजनाः देशस्य कस्यापि डाकघरतः भारतीय डाक इत्यस्य माध्यमेन द्विसहस्ररूप्यकनाणकानि आरबीआईस्य कस्यापि निर्गमकार्यालयं प्रति प्रेषयित्वा स्वबैंकखाते निक्षेपयितुं शक्नुवन्ति।
अन्ते पुनरपि आरबीआई इत्यनेन एतत् स्पष्टं कृतं यत् द्विसहस्ररूप्यकनाणकानि अद्यापि वैधमुद्रारूपेण स्वीकृतानि सन्ति।
---------------
हिन्दुस्थान समाचार