पांडुलिपीनां संरक्षणे सायान्यजनानां सुनिश्चेता सहभागिता - मुख्यसचिवः
लखनऊ, 01 अप्रैलमासः (हि.स.)। लखनऊनगरे बुधवासरे एस.पी. गोयलस्य अध्यक्षतायाम् उत्तरप्रदेशस्य राष्ट्रियपाण्डुलिपिसर्वेक्षणकार्यक्रमस्य राज्यस्तरीयसमित्याः सभा आयोजिता। अस्यां सभायां सम्पूर्णप्रदेशे पाण्डुलिपीनां चिह्नांकनं संरक्षणं डिजिटलीकरणं च इत्
आनलाइन बैठक करते मुख्य सचिव एसपी गोयल


लखनऊ, 01 अप्रैलमासः (हि.स.)।

लखनऊनगरे बुधवासरे एस.पी. गोयलस्य अध्यक्षतायाम् उत्तरप्रदेशस्य राष्ट्रियपाण्डुलिपिसर्वेक्षणकार्यक्रमस्य राज्यस्तरीयसमित्याः सभा आयोजिता। अस्यां सभायां सम्पूर्णप्रदेशे पाण्डुलिपीनां चिह्नांकनं संरक्षणं डिजिटलीकरणं च इत्येषां कार्याणां प्रगतेः तथा आगामिकार्ययोजनायाः विषये विस्तृतः विचारविमर्शः कृतः।

मुख्यसचिवः स्वभाषणे उक्तवान् यत् राष्ट्रियपाण्डुलिपिसर्वेक्षणकार्यक्रमस्य प्रमुखलक्ष्यम् भारतस्य समृद्धविशालपाण्डुलिपिसम्पदां आधुनिकप्रौद्योगिक्या सह समन्वय्य डिजिटलमाध्यमेन सर्वसामान्यजनानां कृते सुलभतया उपलब्धं कर्तुम् अस्ति। तेन निर्देशाः दत्ताः यत् अस्य कार्यक्रमस्य अन्तर्गतं पाण्डुलिपिचिन्हांकनकार्यं आगामी १६ जूनपर्यन्तं अनिवार्यतया सम्पादनीयम्। तथा च दुर्लभमहत्त्वपूर्णपाण्डुलिपीनां परिचयः तेषां डिजिटलीकरणं संरक्षणं च इत्यर्थं जनसामान्यस्य सक्रियभागीदारी सुनिश्चित्या तान् प्रोत्साहितव्याः।

तेन अधिकाऱिणः प्रति अपि आदेशाः प्रदत्ताः यत् सर्वेषु जनपदेषु पाण्डुलिपिसर्वेक्षणं व्यवस्थितरूपेण समयबद्धतया च क्रियते। अस्यार्थं प्रत्येकस्मिन् जनपदे जिलाधिकारीणः अध्यक्षतायां जिलास्तरीयसमितेः गठनं शीघ्रं कर्तव्यम्। अस्यां समितौ नगरायुक्तः, अधिशासीअधिकारी, नगरनिकायप्रतिनिधयः, विश्वविद्यालयमहाविद्यालयाधिकारिणः, जिलाविद्यालयनिरीक्षकः, संस्कृतपाठशालाप्रतिनिधयः तथा प्राचीनभाषाविशेषज्ञाः सदस्यरूपेण समावेश्यन्ते, मुख्यविकासाधिकारी तु सदस्यसचिवरूपेण नियुक्तव्यः।

सः अपि उक्तवान् यत् भारतस्य पाण्डुलिपिविरासतायाः संरक्षणे जनसहभागिता अत्यन्तं महत्त्वपूर्णा अस्ति, अतः सर्वेक्षणकार्ये अधिकाधिकजनानां सहभागिता सुनिश्चित्या।

तेन सूचितं यत् पाण्डुलिपयः अभिलेखागारेषु, राजकीयनिजपुस्तकालयेषु, संग्रहालयेषु, विश्वविद्यालयेषु, अनुसन्धानसंस्थासु, संस्कृतपाठशालासु, मन्दिरेषु, मठेषु, आश्रमेषु, गुरुकुलेषु, न्यासेषु तथा निजीसंग्राहकेषु अपि लभ्यन्ते; अपि च पारम्परिकविद्वत्सु, पूजकज्योतिषाचार्यायुरेदाचार्येषु च ताः संरक्षिताः सन्ति।

सभायां उक्तं यत् सर्वेक्षणकार्यं १६ मार्च २०२६ तः आरब्धम् अस्ति, सर्वेभ्यः जनपदेभ्यः स्वस्वक्षेत्रेषु एतत् कार्यं प्रारभ्य ‘ज्ञान भारतम्’ इति मोबाइलअनुप्रयोगे सम्बन्धितविवरणस्य अपलोडनं अनिवार्यम् अस्ति।

अस्यां सभायां अमृत अभिजातः (पर्यटनसंस्कृत्यपरमुख्यसचिवः) अन्ये वरिष्ठाधिकारिणश्च उपस्थिताः आसन्, अपि च विडियोसम्मेलनमाध्यमेन सर्वे जिलाधिकारी अपि सहभागिनः अभवन्।

हिन्दुस्थान समाचार